वांछित मन्त्र चुनें

एता॑ऽऐन्द्रा॒ग्ना द्वि॑रू॒पाऽअ॑ग्नीषो॒मीया॑ वाम॒नाऽअ॑न॒ड्वाह॑ऽ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्यो᳕ऽन्यत॑ऽएन्यो मै॒त्र्यः᳖ ॥८ ॥

मन्त्र उच्चारण
पद पाठ

एताः॑। ऐ॒न्द्रा॒ग्नाः। द्वि॒रू॒पा इति॑ द्विऽरू॒पाः। अ॒ग्नी॒षो॒मीयाः॑। वा॒म॒नाः। अ॒न॒ड्वाहः॑। आ॒ग्ना॒वै॒ष्ण॒वाः। व॒शा। मै॒त्रा॒व॒रु॒ण्यः᳕। अ॒न्यत॑एन्य॒ इत्य॒न्यतः॑ऽएन्यः। मै॒त्र्यः᳖ ॥८ ॥

यजुर्वेद » अध्याय:24» मन्त्र:8


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको (एताः) ये पूर्वोक्त (द्विरूपाः) द्विरूप पशु अर्थात् जिनके दो-दो रूप हैं, वे (ऐन्द्राग्नाः) वायु और बिजुली के संगी, जो (वामनाः) टेढ़े अङ्गोंवाले व नाटे और (अनड्वाहः) बैल हैं, वे (अग्नीषोमीयाः) सोम और अग्नि देवतावाले तथा (आग्नावैष्णवाः) अग्नि और वायु देवतावाले जो (वशाः) वन्ध्या गौ हैं, वे (मैत्रावरुण्यः) प्राण और उदान देवतावाली और जो (अन्यतएन्यः) कहीं से प्राप्त हों, वे (मैत्र्यः) मित्र के प्रिय व्यवहार में जानने चाहियें ॥८ ॥
भावार्थभाषाः - जो मनुष्य वायु और अग्नि आदि के गुणोंवाले गौ आदि पशु हैं, उनकी पालना करते हैं, वे सब का उपकार करनेवाले होते हैं ॥८ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(एताः) पूर्वोक्ताः (ऐन्द्राग्नाः) वायुविद्युत्सङ्गिनः (द्विरूपाः) द्वे रूपे यासां ताः (अग्नीषोमीयाः) सोमाग्निदेवताकाः (वामनाः) वक्रावयवाः (अनड्वाहः) वृषभाः (आग्नावैष्णवाः) अग्निवायुदेवताकाः (वशाः) वन्ध्या गावः (मैत्रावरुण्यः) प्राणोदानदेवताकाः (अन्यतएन्यः) या अन्यतो यन्ति प्राप्नुवन्ति ताः (मैत्र्यः) मित्रस्य प्रिये वर्त्तमानाः ॥८ ॥

पदार्थान्वयभाषाः - हे मनुष्या युष्माभिर्या एता द्विरूपाः सन्ति ता ऐन्द्राग्नाः। ये वामना अनड्वाहः सन्ति तेऽग्नीषोमीया आग्नावैष्णवाश्च। या वशाः सन्ति ता मैत्रावरुण्यः। या अन्यतएन्यः सन्ति ताश्च मैत्र्यो विज्ञेयाः ॥८ ॥
भावार्थभाषाः - ये मनुष्या वाय्वग्न्यादिगुणान् पशून् पालयन्ति, ते सर्वोपकारका भवन्ति ॥८ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - गाई वगैरे ज्या पशूंमध्ये वायू व अग्नीचे गुण असतात त्यांचे पालन जी माणसे करतात ती सर्वांवर उपकार करतात.