वांछित मन्त्र चुनें

उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्तऽऐ॑न्द्रावैष्ण॒वाऽउ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्तऽऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ऽआग्निमारु॒ताः श्या॒माः पौ॒ष्णाः ॥७ ॥

मन्त्र उच्चारण
पद पाठ

उ॒न्न॒त इत्यु॑त्ऽन॒तः। ऋ॒ष॒भः। वा॒म॒नः। ते। ऐ॒न्द्रा॒वै॒ष्ण॒वाः। उ॒न्न॒त इत्यु॑त्ऽन॒तः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। शि॒ति॒पृ॒ष्ठ इति॑ शितिऽपृ॒ष्ठः। ते। ऐ॒न्द्रा॒बा॒र्ह॒स्प॒त्याः। शुक॑रू॒पा इति॒ शुक॑ऽरू॒पाः। वा॒जि॒नाः। क॒ल्माषाः॑। आ॒ग्नि॒मा॒रु॒ता इत्या॑ग्निमारु॒ताः। श्या॒माः। पौ॒ष्णाः ॥७ ॥

यजुर्वेद » अध्याय:24» मन्त्र:7


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (उन्नतः) ऊँचा (ऋषभः) और श्रेष्ठ (वामनः) टेढ़े अङ्गोंवाले नाटा पशु हैं, (ते) वे (ऐन्द्रावैष्णवाः) बिजुली और पवन देवतावाले, जो (उन्नतः) ऊँचा (शितिबाहुः) जिसका दूसरे पदार्थ को काटती-छाँटती हुई भुजाओं के समान बल और (शितिपृष्ठः) जिसकी सूक्ष्म की हुई पीठ ऐसे जो पशु हैं, (ते) वे (ऐन्द्राबार्हस्पत्याः) वायु और सूर्य देवतावाले (शुकरूपाः) जिनका सुग्गों के समान रूप और (वाजिनाः) वेगवाले (कल्माषाः) कबरे भी हैं, वे (आग्निमारुताः) अग्नि और पवन देवतावाले तथा जो (श्यामाः) काले रंग के हैं, वे (पौष्णाः) पुष्टिनिमित्तक मेघ देवतावाले जानने चाहियें ॥७ ॥
भावार्थभाषाः - जो मनुष्य पशुओं की उन्नति और पुष्टि करते हैं, वे नाना प्रकार के सुखों को पाते हैं ॥७ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(उन्नतः) उच्छ्रितः (ऋषभः) श्रेष्ठः (वामनः) वक्राङ्गः (ते) (ऐन्द्रावैष्णवाः) विद्युद्वायुदेवताकाः (उन्नतः) (शितिबाहुः) शिती तनूकर्त्तारौ बाहू इव बलं यस्य सः (शितिपृष्ठः) शितिस्तनूकरणं पृष्ठं यस्य सः (ते) (ऐन्द्राबार्हस्पत्याः) वायुसूर्यदेवताकाः (शुकरूपाः) शुकस्य रूपमिव रूपं येषान्ते (वाजिनाः) वेगवन्तः (कल्माषाः) श्वेतकृष्णवर्णाः (आग्निमारुताः) अग्निवायुदेवताकाः (श्यामाः) श्यामवर्णाः (पौष्णाः) पुष्टिनिमित्त-मेघदेवताकाः ॥७ ॥

पदार्थान्वयभाषाः - हे मनुष्या ! भवद्भिर्ये उन्नत ऋषभो वामनश्च सन्ति, त ऐन्द्रावैष्णवाः। य उन्नतः शितिबाहुः शितिपृष्ठश्च सन्ति, त ऐन्द्राबार्हस्पत्याः। ये शुकरूपा वाजिनाः कल्माषाः सन्ति, त आग्निमारुताः। ये श्यामाः सन्ति, ते च पौष्णाः विज्ञेयाः ॥७ ॥
भावार्थभाषाः - ये मनुष्याः पशूनामुन्नतिं पुष्टिं च कुर्वन्ति ते नानाविधानि सुखानि लभन्ते ॥७ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे पशूंची वाढ करून त्यांना पुष्ट करतात ती नाना प्रकारचे सुख भोगतात.