वांछित मन्त्र चुनें

पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः᳖ प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्तऽऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जि॒र्महाञ्जि॒स्तऽउ॑ष॒स्याः᳖ ॥४ ॥

मन्त्र उच्चारण
पद पाठ

पृश्निः॑। ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ऽपृश्निः। ऊ॒र्ध्वपृ॑श्नि॒रित्यू॒र्ध्वऽपृ॑श्निः। ते। मा॒रु॒ताः। फ॒ल्गूः। लो॒हि॒तो॒र्णीति॑ लोहितऽऊ॒र्णी। प॒ल॒क्षी। ताः। सा॒र॒स्व॒त्यः᳖। प्ली॒हा॒कर्णः॑। प्ली॒ह॒कर्ण॒ इति॑ प्लीह॒ऽकर्णः॑। शु॒ण्ठा॒कर्णः॑। शु॒ण्ठ॒कर्णः॑ इति॑ शुण्ठ॒ऽकर्णः॑। अ॒ध्या॒लो॒ह॒कर्ण॒ इत्य॑ध्यालोह॒ऽकर्णः॑। ते। त्वा॒ष्ट्राः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। शि॒ति॒कक्ष॒ऽइति॑ शिति॒ऽकक्षः॑। अ॒ञ्जि॒स॒क्थऽइत्य॑ञ्जिऽस॒क्थः। ते। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाञ्जि॒रिति॑ कृ॒ष्णऽअ॑ञ्जिः। अल्पा॑ञ्जि॒रित्यल्प॑ऽअञ्जिः। म॒हाञ्जि॒रिति॑ म॒हाऽअ॑ञ्जिः। ते। उ॒ष॒स्याः᳖ ॥४ ॥

यजुर्वेद » अध्याय:24» मन्त्र:4


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो जो (पृश्निः) पूछने योग्य (तिरश्चीनपृश्निः) जिसका तिरछा स्पर्श और (ऊर्ध्वपृश्निः) जिसका ऊँचा वा उत्तम स्पर्श है, (ते) वे (मारुताः) वायु देवतावाले। जो (फल्गूः) फलों को प्राप्त हों (लोहितोर्णी) जिसकी लाल ऊर्णा अर्थात् देह के बाल और (पलक्षी) जिसकी चञ्चल-चपल आँखें ऐसे पशु हैं, (ताः) वे (सारस्वत्यः) सरस्वती देवतावाले (प्लीहाकर्णः) जिसके कान में प्लीहा रोग के आकार के चिह्न हों (शुण्ठाकर्णः) जिसके सूखे कान और जिसके (अध्यालोहकर्णः) अच्छे प्रकार प्राप्त हुए सुवर्ण के समान कान ऐसे जो पशु हैं, (ते) वे सब (त्वाष्ट्राः) त्वष्टा देवतावाले, जो (कृष्णग्रीवः) काले गलेवाले (शितिकक्षः) जिसके पांजर की ओर सुपेद अङ्ग और (अञ्जिसक्थः) जिसकी प्रसिद्ध जङ्घा अर्थात् स्थूल होने से अलग विदित हों, ऐसे जो पशु हैं, (ते) वे सब (ऐन्द्राग्नाः) पवन और बिजुली देवतावाले तथा (कृष्णाञ्जिः) जिसकी करोदी हुई चाल (अल्पाञ्जिः) जिसकी थोड़ी चाल और (महाञ्जिः) जिसकी बड़ी चाल ऐसे जो पशु हैं, (ते) वे सब (उषस्याः) उषा देवतावाले होते हैं, यह जानना चाहिये ॥४ ॥
भावार्थभाषाः - जो पशु और पक्षी पवन गुण वा जो नदी गुण वा जो सूर्य गुण वा जो पवन और बिजुली गुण तथा जो प्रातःसमय की वेला के गुणवाले हैं, उनसे उन्हीं के अनुकूल काम सिद्ध करने चाहियें ॥४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(पृश्निः) प्रष्टव्यः (तिरश्चीनपृश्निः) तिरश्चीनः पृश्निः स्पर्शो यस्य सः (ऊर्ध्वपृश्निः) ऊर्ध्व उत्कृष्टः पृश्निः स्पर्शो यस्य सः (ते) (मारुताः) मरुद्देवताकाः (फल्गूः) या फलानि गच्छति प्राप्नोति सा (लोहितोर्णी) लोहिता ऊर्णा यस्याः सा (पलक्षी) पले चञ्चले अक्षिणी यस्याः सा (ताः) (सारस्वत्यः) सरस्वतीदेवताकाः (प्लीहाकर्णः) प्लीहेव कर्णे यस्य सः (शुण्ठाकर्णः) शुण्ठौ शुष्कौ कर्णौ यस्य सः (अध्यालोहकर्णः) अधिगतं च तल्लोहं च सुवर्णं तद्वद्कर्णौ यस्य सः। लोहमिति हिरण्यनामसु पठितम् ॥ (निघं०१.२) (ते) (त्वाष्ट्राः) त्वष्टृदेवताकाः (कृष्णग्रीवः) कृष्णा ग्रीवा यस्य सः (शितिकक्षः) शिती श्वेतौ कक्षौ पार्श्वौ यस्य सः (अञ्जिसक्थः) अञ्जीनि प्रसिद्धानि सक्थीनि यस्य सः (ते) (ऐन्द्राग्नाः) वायुविद्युद्देवताकाः (कृष्णाञ्जिः) कृष्णा विलिखिता अञ्जिर्मतिर्यस्य सः (अल्पाञ्जिः) अल्पगतिः (महाञ्जिः) महागतिः (ते) (उषस्याः) उषोदेवताकाः ॥४ ॥

पदार्थान्वयभाषाः - हे मनुष्या ये पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निश्च सन्ति ते मारुताः। याः फल्गूर्लोहितोर्णी पलक्षी च सन्ति ताः सारस्वत्यः। ये प्लीहाकर्णः शुण्ठाकर्णोऽध्यालोहकर्णश्च सन्ति ते त्वाष्ट्राः। ये कृष्णग्रीवः शितिकक्षोऽञ्जिसक्थश्च सन्ति त ऐन्द्राग्नाः। ये कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिश्च सन्ति त उषस्याश्च भवन्तीति वेद्यम् ॥४ ॥
भावार्थभाषाः - ये पशवः पक्षिणश्च वायुगुणा ये नदीगुणा ये सूर्य्यगुणा ये वायुविद्युद्गुणा ये चोषोगुणाः सन्ति, तैस्तदनुकूलानि कार्य्याणि साधनीयानि ॥४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे पशू व पक्षी वायूच्या गुणाचे असतात किंवा जे नदीच्या गुणाचे असतात किंवा जे सूर्याच्या गुणाचे असतात व जे वायू व विद्युत यांच्या गुणाचे व जे प्रातःकालीन उषेच्या गुणाचे असतात त्यांच्याकडून त्यानुसारच काम करून घ्यावे.