वांछित मन्त्र चुनें

शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्तऽआ॑श्वि॒नाः श्येतः॑ श्येता॒क्षो᳖ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒माऽअ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ॥३ ॥

मन्त्र उच्चारण
पद पाठ

शु॒द्धवा॑ल॒ इति॑ शु॒द्धऽवा॑लः। स॒र्वशु॑द्धवाल॒ऽइति॑ स॒र्वऽशु॑द्धवालः। म॒णि॒वाल॒ इति॑ मणि॒ऽवालः॑। ते। आ॒श्वि॒नाः। श्येतः॑। श्ये॒ता॒क्ष इति॑ श्येतऽअ॒क्षः। अ॒रु॒णः। ते। रु॒द्राय॑। प॒शु॒पत॑य॒ इति॑ पशु॒ऽपत॑ये। क॒र्णाः। या॒माः। अ॒व॒लि॒प्ता इत्य॑वऽलि॒प्ताः। रौ॒द्राः। नभो॑रूपा॒ इति॒ नभः॑ऽरूपाः। पा॒र्ज॒न्याः ॥३ ॥

यजुर्वेद » अध्याय:24» मन्त्र:3


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर कैसे गुणवाले पशु हैं, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको जो (शुद्धवालः) जिसके शुद्ध बाल वा शुद्ध छोटे-छोटे अङ्ग (सर्वशुद्धवालः) जिसके समस्त शुद्ध बाल और (मणिवालः) जिसके मणि के समान चिलकते हुए बाल हैं, ऐसे जो पशु (ते) वे सब (आश्विनाः) सूर्य-चन्द्र देवतावाले अर्थात् सूर्य-चन्द्रमा के समान दिव्य गुणवाले, जो (श्येतः) सुपेद रंगयुक्त (श्येताक्षः) जिसकी सुपेद आँखें और (अरुणः) जो लाल रंगवाला है, (ते) वे (पशुपतये) पशुओं की रक्षा करने और (रुद्राय) दुष्टों को रुलानेहारे के लिये। जो ऐसे हैं कि (कर्णाः) जिनसे काम करते हैं, वे (यामाः) वायु देवतावाले (अवलिप्ताः) जिन के उन्नतियुक्त अङ्ग अर्थात् स्थूल शरीर हैं, वे (रौद्राः) प्राणवायु आदि देवतावाले तथा (नभोरूपाः) जिनका आकाश के समान नीला रूप है, ऐसे जो पशु हैं, वे सब (पार्जन्याः) मेघ देवतावाले जानने चाहियें ॥३ ॥
भावार्थभाषाः - जो जिस पशु का देवता है, वह उस का गुण है, यह जानना चाहिये ॥३ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः कीदृशगुणाः पशव इत्याह ॥

अन्वय:

(शुद्धवालः) शुद्धा वाला यस्य सः (सर्वशुद्धवालः) सर्वे शुद्धा वाला यस्य सः (मणिवालः) मणिरिव वाला यस्य सः (ते) (आश्विनाः) सूर्य्यचन्द्रदेवताकाः (श्येतः) श्वेतवर्णः (श्येताक्षः) श्येते अक्षिणी यस्य सः (अरुणः) रक्तवर्णः (ते) (रुद्राय) दुष्टानां रोदकाय (पशुपतये) पशूनां पालकाय (कर्णाः) ये कार्याणि कुर्वन्ति ते (यामाः) वायुदेवताकाः (अवलिप्ताः) अवलिप्तान्युपचितान्यङ्गानि येषान्ते (रौद्राः) प्राणादिदेवताकाः (नभोरूपाः) नभ इव रूपं येषान्ते (पार्जन्याः) मेघदेवताकाः ॥३ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्ये शुद्धवालः सर्वशुद्धवालो मणिवालश्च सन्ति, त आश्विनाः। ये श्येतः श्येताक्षोऽरुणश्च सन्ति, ते पशुपतये रुद्राय। ये कर्णाः सन्ति, ते यामाः। येऽवलिप्ताः सन्ति, ते रौद्राः। ये नभोरूपाः सन्ति, ते पार्जन्याश्च वेदितव्याः ॥३ ॥
भावार्थभाषाः - यो यस्य पशोर्देवताऽस्ति स तद्गुणोऽस्तीति वेद्यम् ॥३ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी ज्या ज्या पशूंची देवता आहे तो त्या त्या पशूंना गुण जाणावा.