सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान् गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हपत॑ये पारु॒ष्णान् ॥२४ ॥
सोमा॑य। ल॒बान्। आ। ल॒भ॒ते॒। त्वष्ट्रे॑। कौ॒ली॒कान्। गो॒षा॒दीः। गो॒सा॒दीरिति॑ गोऽसा॒दीः। दे॒वाना॑म्। पत्नी॑भ्यः। कु॒लीकाः। दे॒व॒जा॒मिभ्य॒ इति॑ देवऽजा॒मिभ्यः॑। अ॒ग्नये॑। गृ॒हप॑तय॒ इति॑ गृ॒हऽप॑तये। पा॒रु॒ष्णान् ॥२४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(सोमाय) ऐश्वर्याय (लबान्) (आ) (लभते) (त्वष्ट्रे) प्रकाशकाय (कौलीकान्) पक्षिविशेषान् (गोसादीः) या गाः सादयन्ति हिंसन्ति ताः पक्षिणीः (देवानाम्) विदुषाम् (पत्नीभ्यः) स्त्रीभ्यः (कुलीकाः) पक्षिणीविशेषाः (देवजामिभ्यः) विदुषां भगिनीभ्यः (अग्नये) अग्निरिव वर्त्तमानाय (गृहपतये) गृहपालकाय (पारुष्णान्) पक्षिविशेषान् ॥२४ ॥