वांछित मन्त्र चुनें

रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्राव॒रुण्यः᳖ ॥२ ॥

मन्त्र उच्चारण
पद पाठ

रोहि॑तः। धू॒म्ररो॑हित॒ इति॑ धू॒म्ररो॑हितः। क॒र्कन्धु॑रोहित॒ऽइति॑ क॒र्कन्धु॑ऽरोहितः। ते। सौ॒म्याः। ब॒भ्रुः। अ॒रुणब॑भ्रु॒रिति॑ अरु॒णऽब॑भ्रुः॒। शुक॑बभ्रु॒रिति॒ शुक॑ऽबभ्रुः। ते। वा॒रु॒णाः। शि॒ति॒रन्ध्र॒ऽइति॑ शि॒ति॒ऽरन्ध्रः। अ॒न्यतः॑शितिरन्ध्र॒ऽइत्य॒न्यतः॑ऽशितिरन्ध्रः। स॒म॒न्तशि॑तिरन्ध्र॒ऽइति॑ सम॒न्तऽशि॑तिरन्ध्रः। ते। सा॒वि॒त्राः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। अ॒न्यतः॑शि॑तिबाहु॒रित्य॒न्यतः॑ऽशितिबाहुः। स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्तऽशि॑तिबाहुः। ते। बा॒र्ह॒स्प॒त्याः। पृष॑ती। क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्रऽषृ॑पती। स्थू॒लपृ॑ष॒तीति॑ स्थू॒लऽपृ॑षती। ताः। मैत्रा॒व॒रु॒ण्यः᳖ ॥२ ॥

यजुर्वेद » अध्याय:24» मन्त्र:2


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर कौन पशु कैसे गुणवाले हैं? इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो तुम को जो (रोहितः) सामान्य लाल (धूम्ररोहितः) धुमेला लाल और (कर्कन्धुरोहितः) पके बेर के समान लाल पशु हैं, (ते) वे (सौम्याः) सोम देवता अर्थात् सोम गुणवाले, जो (बभ्रुः) न्योला के समान धुमेला (अरुणबभ्रुः) लालामी लिये हुए न्योले के समान रंगवाला और (शुकबभ्रुः) सुग्गा की समता को लिये हुए न्योले के समान रंगयुक्त पशु हैं, (ते) वे सब (वारुणाः) वरुण देवतावाले अर्थात् श्रेष्ठ जो (शितिरन्ध्रः) शितिरन्ध्र अर्थात् जिसके मर्मस्थान आदि में सुपेदी (अन्यतःशितिरन्ध्रः) जो और अङ्ग से और अङ्ग में छेद से हों, वैसी जिसके जहाँ-तहाँ सुपेदी (समन्तशितिरन्ध्रः) और जिसके सब ओर से छेदों के समान सुपेदी के चिह्न हैं, (ते) वे सब (सावित्राः) सविता देवतावाले (शितिबाहुः) जिसके अगले भुजाओं में सुपेदी के चिह्न (अन्यतःशितिबाहुः) जिसके और अङ्ग से और अङ्ग में सुपेदी के चिह्न और (समन्तशितिबाहुः) जिसके सब और से अगले गोड़ों में सुपेदी के चिह्न हैं, ऐसे जो पशु हैं, (ते) वे (बार्हस्पत्याः) बृहस्पति देवतावाले तथा जो (पृषती) सब अङ्गों से अच्छी छिटकी हुई सी (क्षुद्रपृषती) जिसके छोटे-छोटे रंग-बिरंग छींटे और (स्थूलपृषती) जिसके मोटे-मोटे छींटे (ताः) वे सब (मैत्रावरुण्यः) प्राण और उदान देवतावाले होते हैं, यह जानना चाहिये ॥२ ॥
भावार्थभाषाः - जो चन्द्रमा आदि के उत्तम गुणवाले पशु हैं, उनसे उन-उन के गुण के अनुकूल काम मनुष्यों को सिद्ध करने चाहियें ॥२ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः के पशवः कीदृशगुणा इत्याह ॥

अन्वय:

(रोहितः) रक्तवर्णः (धूम्ररोहितः) धूम्ररक्तवर्णः (कर्कन्धुरोहितः) कर्कन्धुर्बदरीफलमिव रोहितः (ते) (सौम्याः) सोमदेवताकाः (बभ्रुः) नकुलसदृशवर्णः (अरुणबभ्रुः) अरुणेन युक्तो बभ्रुवर्णो यस्य सः (शुकबभ्रुः) शुकस्येव बभ्रुर्वर्णो यस्य सः (ते) (वारुणाः) वरुणदेवताकाः (शितिरन्ध्रः) शितिः श्वेतता रन्ध्रे यस्य सः (अन्यतः शितिरन्ध्रः) अन्यतोऽन्यस्मिन् रन्ध्राणीव शितयो यस्य सः (समन्तशितिरन्ध्रः) समन्ततो रन्ध्राणीव शितयः श्वेतचिह्नानि यस्य सः (ते) (सावित्राः) सवितृदेवताकाः (शितिबाहुः) शितयो बाह्वोर्यस्य सः (अन्यतःशितिबाहुः) अन्यतः शितयो बाह्वोर्यस्य सः (समन्तशितिबाहुः) समन्ताच्छितयो बाह्वोर्भुजस्थानयोर्यस्य सः (ते) (बार्हस्पत्याः) बृहस्पतिदेवताकाः (पृषती) अङ्गैः सुसिक्ता (क्षुद्रपृषती) क्षुद्राणि पृषन्ति यस्याः सा (स्थूलपृषती) स्थूलानि पृषन्ति यस्याः सा (ताः) (मैत्रावरुण्यः) प्राणोदानदेवताकाः ॥२ ॥

पदार्थान्वयभाषाः - हे मनुष्या युष्माभिर्ये रोहितो धूम्ररोहितः कर्कन्धुरोहितश्च सन्ति ते सौम्याः। ये बभ्रुररुणबभ्रुः शुकबभ्रुश्च सन्ति ते वारुणाः। ये शितिरन्ध्रोऽन्यतश्शितिरन्ध्रः समन्तशितिरन्ध्रश्च सन्ति ते सावित्राः। ये शितिबाहुरन्यतःशितिबाहुः समन्तशितिबाहुश्च सन्ति ते बार्हस्पत्याः। याः पृषती क्षुद्रपृषती स्थूलपृषती च सन्ति ता मैत्रावरुण्यो भवन्तीति बोध्यम् ॥२ ॥
भावार्थभाषाः - ये चन्द्रादिगुणयुक्ताः पशवः सन्ति तैस्तत्तत्कार्य्यं मनुष्यैः साध्यम् ॥२ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे चंद्रासारखे उत्तम गुणयुक्त पशू आहेत त्यांच्याकडून त्यांच्या त्यांच्या गुणानुसार माणसांनी कार्ये करून घ्यावीत.