वांछित मन्त्र चुनें

धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णासोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ॥१८ ॥

मन्त्र उच्चारण
पद पाठ

धू॒म्राः। ब॒भ्रुनी॑काशाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। सोम॑वता॒मिति॒ सोम॑ऽवताम्। ब॒भ्रवः॑। धू॒म्रनी॑काशाः। धू॒म्रनि॑काशा॒ इति॑ धू॒म्रऽनि॑काशाः। पि॒तॄणाम्। ब॒र्हि॒षदा॑म्। ब॒र्हि॒सदा॒मिति बर्हि॒ऽसदा॑म्। कृ॒ष्णाः। ब॒भ्रुनि॑काशा॒ इति॑ ब॒भ्रुऽनि॑काशाः। पि॒तॄणाम्। अ॒ग्नि॒ष्वा॒त्ताना॒म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। कृ॒ष्णाः। पृष॑न्तः। त्रै॒य॒म्ब॒काः ॥१८ ॥

यजुर्वेद » अध्याय:24» मन्त्र:18


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (सोमवताम्) सोम शान्ति आदि गुणयुक्त उत्पन्न करनेवाले (पितॄणाम्) माता- पिताओं के (बभ्रुनीकाशाः) न्योले के समान (धूम्राः) धुमेले रंगवाले (बर्हिषदाम्) जो सभा के बीच बैठते हैं, उन (पितॄणाम्) पालना करने हारे विद्वानों के (कृष्णाः) काले रंगवाले (धूम्रनीकाशाः) धुआँ के समान अर्थात् धुमेले और (बभ्रवः) पुष्टि करनेवाले तथा (अग्निष्वात्तानाम्) जिन्होंने अग्निविद्या ग्रहण की है, उन (पितॄणाम्) पालना करने हारे विद्वानों के (बभ्रुनीकाशाः) पालने हारे के समान (कृष्णाः) काले रंगवाले (पृषन्तः) मोटे अङ्गों से युक्त (त्रैयम्बकाः) जिनका तीन अधिकारों में चिह्न है, वे प्राणी वा पदार्थ हैं, यह जानना चाहिये ॥१८ ॥
भावार्थभाषाः - जो उत्पन्न करने और विद्या देनेवाले विद्वान् हैं, उनका घी आदि पदार्थ वा गौ आदि के दान से यथायोग्य सत्कार करना चाहिये ॥१८ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(धूम्राः) धूम्रवर्णाः (बभ्रुनीकाशाः) नकुलसदृशाः (पितॄणाम्) जनकजननीनाम् (सोमवताम्) सोमगुणयुक्तानाम् (बभ्रवः) पुष्टिकर्त्तारः (धूम्रनीकाशाः) (पितॄणाम्) (बर्हिषदाम्) ये बर्हिषि सभायां सीदन्ति ते (कृष्णाः) कृष्णवर्णाः (बभ्रुनीकाशाः) पालकसदृशाः (पितॄणाम्) (अग्निष्वात्तानाम्) गृहीताग्निविद्यानाम् (कृष्णाः) कृष्णवर्णाः (पृषन्तः) स्थूलाङ्गाः (त्रैयम्बकाः) त्रिष्वधिकारेष्वम्बकं लक्षणं येषान्ते ॥१८ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिः सोमवतां पितॄणां बभ्रुनीकाशाः धूम्रा बर्हिषदां पितॄणां कृष्णा धूम्रनीकाशाः बभ्रवोऽग्निष्वात्तानां पितॄणां बभ्रुनीकाशाः कृष्णाः पृषन्तस्त्रैयम्बकाश्च सन्तीति विज्ञेयाः ॥१८ ॥
भावार्थभाषाः - ये जनका विद्याजन्मदातारश्च सन्ति तेषां घृतादिभिर्गवादिदानैश्च यथायोग्यं सत्कारः कर्त्तव्यः ॥१८ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे शांती वगैरे गुण आणि विद्या देणारे विद्वान असतात त्यांचा घृत इत्यादी पदार्थ किंवा गाई इत्यादी दान देऊन यथायोग्य सत्कार केला पाहिजे.