वांछित मन्त्र चुनें

उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ॥१५ ॥

मन्त्र उच्चारण
पद पाठ

उ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः ॥१५ ॥

यजुर्वेद » अध्याय:24» मन्त्र:15


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को (एताः) ये (उक्ताः) कहे हुए (सञ्चराः) जो अच्छे प्रकार चलने हारे पशु आदि हैं, वे (ऐन्द्राग्नाः) इन्द्र और अग्नि देवतावाले। जो (कृष्णाः) खींचने वा जोतने हारे हैं, वे (वारुणाः) वरुण देवतावाले और जो (पृश्नयः) चित्र-विचित्र चिह्न युक्त (मारुताः) मनुष्य के से स्वभाववाले (तूपराः) हिंसक हैं, वे (कायाः) प्रजापति देवतावाले हैं, यह जानना चाहिये ॥१५ ॥
भावार्थभाषाः - जो नाना प्रकार के देशों में आने-जानेवाले पशु आदि प्राणी हैं, उनसे मनुष्य यथायोग्य उपकार लेवें ॥१५ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(उक्ताः) कथिताः (सञ्चराः) ये सम्यक्चरन्ति ते (एताः) (ऐन्द्राग्नाः) इन्द्राग्निदेवताकाः (कृष्णाः) कर्षकाः (वारुणाः) वरुणदेवताकाः (पृश्नयः) विचित्रचिह्नाः (मारुताः) (कायाः) प्रजापतिदेवताकाः (तूपराः) हिंसकाः ॥१५ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिरेता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णा वारुणाः पृश्नयो मारुतास्तूपराः कायाश्च सन्तीति बोध्यम् ॥१५ ॥
भावार्थभाषाः - ये नानादेशसंचारिणः प्राणिनस्सन्ति तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः ॥१५ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - अनेक देशांमध्ये जाणारे-येणारे जे पशू आहेत. त्यांचा माणसांनी यथायोग्य उपयोग करून घ्यावा.