वांछित मन्त्र चुनें

कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याऽउ॑पध्व॒स्ताः सा॑वि॒त्रा वत्सत॒र्यः᳖ सारस्व॒त्यः᳖ श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑ ॥१४ ॥

मन्त्र उच्चारण
पद पाठ

कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। उ॒प॒ध्व॒स्ताऽइत्यु॑पऽध्व॒स्ताः। सा॒वि॒त्राः। व॒त्स॒त॒र्यः᳖। सा॒र॒स्व॒त्यः᳖। श्या॒माः। पौ॒ष्णाः। पृश्न॑यः। मा॒रु॒ताः। ब॒हु॒रू॒पा इति॑ बहुऽरू॒पाः। वै॒श्व॒दे॒वा इति॑ वैश्वदे॒वाः। व॒शाः। द्या॒वा॒पृ॒थि॒वीयाः॑ ॥४ ॥

यजुर्वेद » अध्याय:24» मन्त्र:14


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (कृष्णग्रीवाः) काले गलेवाले हैं, वे (आग्नेयाः) अग्नि देवतावाले। जो (बभ्रवः) सब का धारण पोषण करनेवाले हैं, वे (सौम्याः) सोम देवतावाले। जो (उपध्वस्ताः) नीचे के समीप गिरे हुए हैं, वे (सावित्राः) सविता देवतावाले। जो (वत्सतर्य्यः) छोटी-छोटी बछिया हैं, वे (सारस्वत्यः) वाणी देवतावाली। जो (श्यामाः) काले वर्ण के हैं, वे (पौष्णाः) पुष्टि करने हारे मेघ देवतावाले। जो (पृश्नयः) पूछने योग्य हैं, वे (मारुताः) मनुष्य देवतावाले। जो (बहुरूपाः) बहुरूपी अर्थात् जिन के अनेक रूप हैं, वे (वैश्वदेवाः) समस्त विद्वान् देवतावाले और जो (वशाः) निरन्तर चिलकते हुए हैं, वे (द्यावापृथिवीयाः) आकाश-पृथिवी देवतावाले जानने चाहियें ॥१४ ॥
भावार्थभाषाः - जैसे शिल्पविद्या जाननेवाले विद्वान् जन अग्नि आदि पदार्थों से अनेक कार्य सिद्ध करते हैं, वैसे खेती करनेवाले पुरुष पशुओं से बहुत कार्य सिद्ध करें ॥१४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

कृष्णग्रीवाः) कृष्णकण्ठाः (आग्नेयाः) अग्निदेवताकाः (बभ्रवः) सर्वस्य धारकाः पोषका वा (सौम्याः) सोमदेवताकाः (उपध्वस्ताः) उपाधः पतिताः (सावित्राः) सवितृदेवताकाः (वत्सतर्य्यः) ह्रस्वा वत्सा यासां ताः (सारस्वत्यः) वाग्देवताकाः (श्यामाः) श्यामवर्णाः (पौष्णाः) पुष्टिकरमेघदेवताकाः (पृश्नयः) प्रष्टव्याः (मारुताः) मनुष्यदेवताकाः (बहुरूपाः) बहूनि रूपाणि येषान्ते (वैश्वदेवाः) विश्वेदेवदेवताकाः (वशाः) देदीप्यमानाः (द्यावापृथिवीयाः) द्यावापृथिवीदेवताकाः ॥१४ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्ये कृष्णग्रीवास्त आग्नेयाः। ये बभ्रवस्ते सौम्याः। य उपध्वस्तास्ते सावित्राः। या वत्सतर्यस्ताः सारस्वत्यः। ये श्यामास्ते पौष्णाः। ये पृश्नयस्ते मारुताः। ये बहुरूपास्ते वैश्वदेवाः। ये वशास्ते च द्यावापृथिवीया विज्ञेयाः ॥४ ॥
भावार्थभाषाः - यथा शिल्पिनोऽग्न्यादिभ्यः पदार्थेभ्योऽनेकानि कार्याणि साध्नुवन्ति, तथा कृषीवलाः पशुभिर्बहूनि कार्याणि साध्नुयुः ॥१४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जसे कर्मकुशल विद्वान लोक अग्नीपासून अनेक क्रिया सिद्ध करतात तसे शेतकरी पशूकडून पुष्कळ काम करून घेऊ शकतात.