द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥५४ ॥
द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥५४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
पूर्व मन्त्र के प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पूर्वप्रश्नानामुत्तराण्याह ॥
(द्यौः) विद्युत् (आसीत्) (पूर्वचित्तिः) प्रथमं चयनम् (अश्वः) महत्तत्त्वम् (आसीत्) (बृहत्) महत् (वयः) प्रजननात्मकम् (अविः) रक्षिका प्रकृतिः (आसीत्) (पिलिप्पिला) (रात्रिः) रात्रिवद्वर्त्तमानः प्रलयः (आसीत्) (पिशङ्गिला) सर्वेषामवयवानां निगलिका ॥५४ ॥