का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि॑स्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥५३ ॥
का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥५३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी अगले मन्त्र में प्रश्नों को कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः प्रश्नानाह ॥
(का) (स्वित्) (आसीत्) (पूर्वचित्तिः) पूर्वस्मिन्ननादौ सञ्चयनाख्या (किम्) (स्वित्) (आसीत्) (बृहत्) महत् (वयः) प्रजननात्मकम् (का) (स्वित्) (आसीत्) (पिलिप्पिला) आर्द्रीभूता (का) (स्वित्) (आसीत्) (पिशङ्गिला) अवयवान्तःकर्त्री ॥५३ ॥