ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ꣳसरः॑। इन्द्रः॑ पृथि॒व्यै वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ॥४८ ॥
ब्रह्म॑। सूर्य्य॑सम॒मिति॒ सूर्य्य॑ऽसमम्। ज्योतिः॑। द्यौः। स॒मु॒द्रस॑म॒मिति॑ समु॒द्रऽस॑मम्। सरः॑। इन्द्रः॑। पृ॒थि॒व्यै। वर्षी॑यान्। गोः। तु। मात्रा॑। न। वि॒द्य॒ते॒ ॥४८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब उक्त प्रश्नों के उत्तरों को अगले मन्त्र में कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथैतेषामुत्तराण्याह ॥
(ब्रह्म) बृहत्सर्वेभ्यो महदनन्तम् (सूर्य्यसमम्) (ज्योतिः) प्रकाशकम् (द्यौः) अन्तरिक्षम् (समुद्रसमम्) समुद्रेण समानः (सरः) (इन्द्रः) सूर्य्यः (पृथिव्यै) पृथिव्याः (वर्षीयान्) अतिशयेन वृद्धो महान् (गोः) वाचः (तु) (मात्रा) (न) (विद्यते) भवति ॥४८ ॥