अ॒र्द्ध॒मा॒साः परू॑षि ते॒ मासा॒ऽआच्छ्य॑न्तु॒ शम्य॑न्तः। अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ सूदयन्तु ते ॥४१ ॥
अ॒र्द्ध॒मा॒सा इत्य॑र्द्धमा॒साः। परू॑ꣳषि। ते॒। मासाः॑। आ। छ्यन्तु॒। शम्य॑न्तः। अ॒हो॒रा॒त्राणि॑। म॒रुतः॑। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम्। सू॒द॒य॒न्तु॒। ते॒ ॥४१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब बालकों में माता आदि कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ बालकेषु मात्रादयः कथं वर्त्तेरन्नित्याह ॥
(अर्द्धमासाः) कृष्णशुक्लपक्षाः (परूंषि) कठोराणि वचनानि (ते) तव (मासाः) चैत्रादयः (आ) समन्तात् (छ्यन्तु) छिन्दन्तु (शम्यन्तः) शान्ति प्रापयन्तः (अहोरात्राणि) (मरुतः) मनुष्याः (विलिष्टम्) विरुद्धमल्पमपि व्यसनम् (सूदयन्तु) दूरीकारयन्तु (ते) तव ॥४१ ॥