सꣳशि॑तो र॒श्मिना॒ रथः॒ सꣳशि॑तो र॒श्मिना॒ हयः॑। सꣳशि॑तो अ॒प्स्व᳖प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ॥१४ ॥
सशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। रथः॑। सशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। हयः॑। सशि॑त॒ इति॒ सम्ऽशि॑तः। अ॒प्स्वित्य॒प्ऽसु। अ॒प्सु॒जा इत्य॑प्सु॒ऽजा। ब्र॒ह्मा। सोम॑ऽपुरोगवः ॥१४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्विद्वांसः किं कुर्युरित्याह ॥
(संशितः) सम्यक्सूक्ष्मीकृतः (रश्मिना) किरणसमूहेन (रथः) रमणसाधनः (संशितः) (रश्मिना) (हयः) अश्वः (संशितः) स्तुतः (अप्सु) प्राणेषु (अप्सुजाः) प्राणेषु जायमानः (ब्रह्मा) महान् योगी विद्वान् (सोमपुरोगवः) सोम ओषधिगणबोध ऐश्वर्ययोगो वा पुरोगामी यस्य सः ॥१४ ॥