अ॒भि॒धाऽअ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्त्ता। स त्वम॒ग्निं वै॑श्वान॒रꣳ सप्र॑थसं गच्छ॒ स्वाहा॑कृतः ॥३ ॥
अ॒भि॒धा इत्य॑भि॒ऽधाः। अ॒सि॒। भुव॑नम्। अ॒सि॒। य॒न्ता। अ॒सि॒। ध॒र्त्ता। सः। त्वम्। अ॒ग्निम्। वै॒श्वा॒न॒र॒म्। सप्र॑थस॒मिति॒ सऽप्र॑थसम्। ग॒च्छ॒। स्वाहा॑कृत॒ इति॒ स्वाहा॑ऽकृतः ॥३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वान् कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्विद्वान् कीदृशो भवतीत्याह ॥
(अभिधाः) योऽभिदधाति सः (असि) (भुवनम्) उदकम्। भुवनमित्युदकनामसु पठितम् ॥ निघं०१.१२ ॥ (असि) (यन्ता) नियन्ता (असि) (धर्त्ता) सकलव्यवहारधारकः (सः) (त्वम्) (अग्निम्) पावकम् (वैश्वानरम्) विश्वेषु वस्तुषु नायकम् (सप्रथसम्) प्रख्यातत्वेन सह वर्त्तमानम् (गच्छ) (स्वाहाकृतः) सत्क्रियया निष्पन्नः ॥३ ॥