दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्णम्रदाः॒ सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सदः॑। ई॒शायै॑ म॒न्युꣳ राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५७ ॥
दे॒वम्। ब॒र्हिः। वारि॑तीना॑म्। अ॒ध्व॒रे। स्ती॒र्णम्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। ऊर्ण॑म्रदा॒ऽइत्यूर्ण॑ऽम्रदाः। सर॑स्वत्या। स्यो॒नम्। इ॒न्द्र॒। ते॒। सदः॑। ई॒शायै॑। म॒न्युम्। राजा॑नम्। ब॒र्हिषा॑। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑ ॥५७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(देवम्) दिव्यम् (बर्हिः) अन्तरिक्षम् (वारितीनाम्) वारिणी जले इतिर्गतिर्येषां तेषाम् (अध्वरे) अहिंसनीये यज्ञे (स्तीर्णम्) आच्छादकम् (अश्विभ्याम्) वायुविद्युद्भ्याम् (ऊर्णम्रदाः) य ऊर्णैराच्छादकैर्मृदन्ते ते (सरस्वत्या) उत्तमवाण्या (स्योनम्) सुखम् (इन्द्र) इन्द्रियस्वामिन् जीव (ते) तव (सदः) सीदन्ति यस्मिंस्तत् (ईशायै) ययैश्वर्यं प्राप्नोति तस्यै (मन्युम्) माननम् (राजानम्) राजमानम् (बर्हिषा) अन्तरिक्षेण (दधुः) (इन्द्रियम्) धनम् (वसुवने) पृथिव्यादिसेवकाय (वसुधेयस्य) पृथिव्याद्याधारस्य (व्यन्तु) (यज) ॥५७ ॥