दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ऽअ॒श्विना॑। तेजो॒ न चक्षु॑र॒क्ष्यो᳖र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं वसु॒॑वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४८ ॥
दे॒वम्। ब॒र्हिः। सर॑स्वती। सु॒दे॒वमिति॑ सुऽदे॒वम्। इन्द्रे॑। अ॒श्विना॑। तेजः॑। न। चक्षुः॑। अ॒क्ष्योः᳖। ब॒र्हिषा॑। द॒धुः॒। इ॒न्द्रि॒यम्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व्य॒न्तु॒। यज॑ ॥४८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब विद्वान् कैसे अपना वर्त्ताव वर्त्तें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ विद्वांसः कथं वर्त्तेरन्नित्याह ॥
(देवम्) दिव्यम् (बर्हिः) अन्तरिक्षम् (सरस्वती) प्रशस्तविज्ञानयुक्ता स्त्री (सुदेवम्) शोभनं विद्वांसम् (इन्द्रे) परमैश्वर्य्ये (अश्विना) अध्यापकोपदेशकौ (तेजः) (न) इव (चक्षुः) नेत्रम् (अक्ष्योः) अक्ष्णोः (बर्हिषा) अन्तरिक्षेण (दधुः) (इन्द्रियम्) धनम् (वसुवने) धनप्रापणाय (वसुधेयस्य) वसुधेयं यस्मिंस्तस्य (व्यन्तु) प्राप्नुवन्तु (यज) यजते ॥४८ ॥