होता॑ यक्ष॒न्नरा॒शꣳसं॒ न न॒ग्नहुं॒ पति॒ꣳ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्य᳕श्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यं᳕ बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३१ ॥
होता॑। य॒क्ष॒त्। न॒रा॒शꣳस॑म्। न। न॒ग्नहु॑म्। पतिम्। सुर॑या। भे॒ष॒जम्। मेषः॒। सर॑स्वती। भि॒षक्। रथः॑। न। च॒न्द्री। अश्विनोः॑। व॒पाः। इन्द्र॑स्य। वी॒र्य᳕म्। बद॑रैः। उ॒प॒वाका॑भि॒रित्यु॑प॒ऽवाका॑भिः। भे॒ष॒जम्। तोक्म॑भि॒रिति॒ तोक्म॑ऽभिः। पयः॑। सोमः॑। प॒रिस्रु॒तेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑ ॥३१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(होता) दाता (यक्षत्) यजेत् (नराशंसम्) यो नरैराशस्यते स्तूयते तम् (न) इव (नग्नहुम्) यो नग्नान् दुष्टान् जुहोति कारागृहे प्रक्षिपति तम्। अत्र हुधातोर्बाहुलकादौणादिको डु प्रत्ययः (पतिम्) स्वामिनम् (सुरया) उदकेन। सुरेत्युदकनामसु पठितम् ॥ निघं०१.१२ ॥ (भेषजम्) औषधम् (मेषः) उपदेष्टा (सरस्वती) विद्यासम्बन्धिनी वाक् (भिषक्) वैद्यः (रथः) (न) इव (चन्द्री) चन्द्रं बहुविधं सुवर्णं विद्यते यस्य (अश्विनोः) द्यावापृथिव्योः (वपाः) वपन्ति याभिः क्रियाभिस्ताः (इन्द्रस्य) दुष्टजनविदारकस्य सकाशात् (वीर्यम्) वीरेषु साधु (बदरैः) बदरीफलैरिव (उपवाकाभिः) उपगताभिर्वाग्भिः (भेषजम्) चिकित्सकम् (तोक्मभिः) अपत्यैः (पयः) दुग्धम् (सोमः) (परिस्रुता) परितः स्रुता प्राप्तेन (घृतम्) (मधु) (व्यन्तु) (आज्यस्य) (होतः) (यज) ॥३१ ॥