वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥११ ॥
वाज॑वाज॒ऽइति॑ वाजे॑ऽवाजे। अ॒व॒त॒। वा॒जि॒नः॒। नः॒। धने॑षु। वि॒प्राः॒। अ॒मृ॒ताः॒। ऋ॒त॒ज्ञा॒ऽइत्यृ॒॑तज्ञाः। अ॒स्य। मध्वः॑। पि॒ब॒त॒। मा॒दय॑ध्वम्। तृ॒प्ताः। या॒त॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒ऽयानैः॑ ॥११ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(वाजेवाजे) युद्धे युद्धे (अवत) रक्षत (वाजिनः) विज्ञानवन्तः (नः) अस्मान् (धनेषु) (विप्राः) मेधाविनः (अमृताः) आत्मस्वरूपेण नित्याः (ऋतज्ञाः) य ऋतं सत्यं जानन्ति ते (अस्य) (मध्वः) मधुरस्य रसस्य। अत्र कर्मणि षष्ठी (पिबत) (मादयध्वम्) आनन्दयत (तृप्ताः) प्रीताः (यात) गच्छत (पथिभिः) (देवयानैः) देवा विद्वांसो यान्ति येषु तैः ॥११ ॥