जि॒ह्वा मे॑ भ॒द्रं वाङ् महो॒ मनो॑ म॒न्युः स्व॒राड् भामः॑। मोदाः॑ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सहः॑ ॥६ ॥
जि॒ह्वा। मे॒। भ॒द्रम्। वाक्। महः॑। मनः॑। म॒न्युः। स्व॒राडिति॑ स्व॒ऽराट्। भामः॑। मोदाः॑। प्र॒मो॒दा इति॑ प्रऽमो॒दाः। अ॒ङ्गुलीः॑। अङ्गा॑नि। मि॒त्रम्। मे॒। सहः॑ ॥६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(जिह्वा) जुहोति शब्दमन्नं वा यया सा जिह्वा (मे) (भद्रम्) कल्याणकरान्नभोजिनी (वाक्) वक्ति यया सा (महः) पूज्यवेदशास्त्रबोधयुक्ता (मनः) मननात्मकमन्तःकरणम् (मन्युः) दुष्टाचारोपरि क्रोधकृत् (स्वराट्) बुद्धिः (भामः) भाति येन सः (मोदाः) हर्षा उत्साहाः (प्रमोदाः) प्रकृष्टाऽऽनन्दयोगाः (अङ्गुलीः) करचरणाऽवयवाः (अङ्गानि) शिर आदीनि (मित्रम्) सखा (मे) (सहः) सहनम् ॥६ ॥