वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः। इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ॥४५ ॥
वन॒स्पतिः॑। अव॑सृष्ट॒ इत्य॒वऽसृ॑ष्टः। न। पाशैः॑। त्मन्या॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। श॒मि॒ता। न। दे॒वः। इन्द्र॑स्य। ह॒व्यैः। ज॒ठर॑म्। पृ॒णा॒नः। स्वदा॑ति। य॒ज्ञम्। मधु॑ना। घृ॒तेन॑ ॥४५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(वनस्पतिः) वनस्य वृक्षसमूहस्य पतिः पालकः (अवसृष्टः) आज्ञप्तः पुरुषः (न) इव (पाशैः) दृढबन्धनैः (त्मन्या) आत्मना। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इति टास्थाने यादेशः (समञ्जन्) सम्पृचानः (शमिता) यज्ञः (न) इव (देवः) दिव्यसुखदाता (इन्द्रस्य) ऐश्वर्यस्य (हव्यैः) अत्तुमर्हैः (जठरम्) उदरमिव कोशम् (पृणानः) पूर्णं कुर्वन् (स्वदाति) आस्वदेत। अत्र लेटि व्यत्ययेन परस्मैपदम् (यज्ञम्) अनुष्ठेयम् (मधुना) क्षौद्रेण (घृतेन) आज्येन ॥४५ ॥