त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णे॑ऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑। वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्द्धन् य॒ज्ञस्य॒ सम॑नक्तु॒ दे॒वान् ॥४४ ॥
त्वष्टा॑। दध॑त्। शुष्म॑म्। इन्द्रा॑य। वृष्णे॑। अपा॑कः। अचि॑ष्टुः। य॒शसे॑। पु॒रूणि॑। वृषा॑। यज॑न्। वृष॑णम्। भूरि॑रेता॒ इति॒ भूरि॑ऽरेताः। मू॒र्द्धन्। य॒ज्ञस्य॑। सम्। अ॒न॒क्तु॒। दे॒वान् ॥४४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वज्जन के विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह ॥
(त्वष्टा) विद्युदिव वर्त्तमानो विद्वान् (दधत्) दधन् (शुष्मम्) बलम् (इन्द्राय) परमैश्वर्याय (वृष्णे) परशक्तिबन्धकाय (अपाकः) अप्रशस्यः। पाक इति प्रशस्यनामसु पठितम् ॥ (निघं०३. ८) (अचिष्टुः) गमनकर्त्ता (यशसे) कीर्त्यै (पुरूणि) बहूनि (वृषा) सेक्ता (यजन्) संगच्छमानः (वृषणम्) मेघम् (भूरिरेताः) बहुवीर्यः (मूर्द्धन्) मूर्द्धनि (यज्ञस्य) संगतस्य जगतः (सम्) (अनक्तु) कामयताम् (देवान्) विदुषः ॥४४ ॥