दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑। मू॒र्द्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः ॥४२ ॥
दैव्या॑। मिमा॑ना। मनु॑षः। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। होता॑रौ। इन्द्र॑म्। प्र॒थ॒मा। सु॒वाचेति॑ सु॒ऽवाचा॑। मू॒र्द्धन्। य॒ज्ञस्य॑। मधु॑ना। दधा॑ना। प्रा॒चीन॑म्। ज्योतिः॑। ह॒विषा॑। वृ॒धा॒तः॒ ॥४२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(दैव्या) देवेषु भवौ (मिमाना) निर्मातारौ (मनुषः) मनुष्यान् (पुरुत्रा) बहून् (होतारौ) दातारौ (इन्द्रम्) परमैश्वर्य्यम् (प्रथमा) आदिमौ विद्वांसौ (सुवाचा) सुशिक्षिता वाग्ययोस्तौ (मूर्द्धन्) मूर्द्धनि (यज्ञस्य) संगन्तव्यस्य (मधुना) मधुरेण (दधाना) धरन्तौ (प्राचीनम्) पुरातनम् (ज्योतिः) प्रकाशम् (हविषा) होतव्येन द्रव्येण (वृधातः) वर्द्धेताम्। अत्र लेटि विकरणव्यत्ययेन शः परस्मैपदं च ॥४२ ॥