इन्द्रं॒ दुरः॑ कव॒ष्यो᳕ धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः॑। द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ता सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ॥४० ॥
इन्द्र॑म्। दुरः॑। क॒व॒ष्यः᳖। धाव॑मानाः। वृषा॑णम्। य॒न्तु॒। जन॑यः। सु॒पत्नी॒रिति॑ सु॒ऽपत्नीः॑। द्वारः॑। दे॒वीः। अ॒भितः॑। वि। श्र॒य॒न्ता॒म्। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रम्। प्रथ॑मानाः। महो॑भि॒रिति॒ महः॑ऽभिः ॥४० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर प्रकारान्तर से उपदेश विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः प्रकारान्तरेणोपदेशविषयमाह ॥
(इन्द्रम्) परमैश्वर्यवन्तम् (दुरः) द्वाराणि (कवष्यः) शब्दे साधवः (धावमानाः) शीघ्रं गच्छन्त्यः (वृषाणम्) अतिवीर्यवन्तम् (यन्तु) प्राप्नुवन्तु (जनयः) जनिकाः (सुपत्नीः) शोभनाः (द्वारः) (देवीः) विद्यादिगुणैः प्रकाशमानाः (अमितः) (वि) (श्रयन्ताम्) (सुवीराः) शोभनाश्च वीराश्च ते (वीरम्) बलवन्तम् (प्रथमानाः) प्रख्याताः (महोभिः) सुपूजितैर्गुणैः ॥४० ॥