अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम्। अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥३१॥
अत्र॑। पि॒त॒रः॒। मा॒द॒य॒ध्व॒म्। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। वृ॒षा॒य॒ध्व॒म्। वृ॒षा॒य॒ध्व॒मिति॑ वृषऽयध्वम्। अमी॑मदन्त। पि॒तरः॑। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। अ॒वृ॒षा॒यि॒ष॒त॒ ॥३१॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य लोगों को धर्मात्मा, ज्ञानी, विद्वान् पुरुषों का कैसा सत्कार करना योग्य है, सो अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैर्धार्मिका ज्ञानिनो विद्वांसः कथं सत्कर्तव्या इत्युपदिश्यते ॥
(अत्र) अस्माकं सत्कारसंयुक्ते व्यवहारे स्थाने वा (पितरः) पान्ति पालयन्ति सद्विद्याशिक्षाभ्यां ये ते तत्संबुद्धौ (मादयध्वम्) हर्षयध्वम् (यथाभागम्) भागमनतिक्रम्य कुर्वन्तीति यथाभागम् (आ) समन्तात् (वृषायध्वम्) आनन्दसेक्तारो वृषा इवाचरत। कर्त्तुः क्यङ् सलोपश्च (अष्टा०३.१.११) अनेन क्यङ् प्रत्ययः। (अमीमदन्त) आनन्दयतास्मान् मोदयत, विद्यां ज्ञापयत वा (पितरः) विद्वांसो विद्यादानेन रक्षकाः (यथाभागम्) भागं भागं प्रतीति यथाभागम्। अत्र वीप्सार्थे प्रतिः। (आ) आभिमुख्यतया (अवृषायिषत) विद्याधर्मशिक्षया हर्षकारका भवत। लोडर्थे लुङ् ॥ अयं मन्त्रः (शत०२.४.२.१९-२३) व्याख्यातः ॥३१॥