अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ऽग्ने॒ऽहं गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः। अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तꣳ हिमाः॒ सूर्य्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२७॥
अग्ने॑। गृ॒ह॒प॒त॒ इति॑ गृहऽपते। सु॒गृ॒ह॒प॒तिरिति॑ सुऽगृहप॒तिः। त्वया॑। अ॒ग्ने॒। अ॒हम्। गृ॒हप॑ति॒नेति॑ गृ॒हऽप॑तिना। भू॒या॒स॒म्। सु॒गृ॒ह॒प॒तिरिति॑ सुऽगृहप॒तिः। त्वम्। मया॑। अ॒ग्ने॒। गृ॒हप॑ति॒नेति॑ गृ॒हऽप॑तिना। भू॒याः॒। अ॒स्थू॒रि। नौ॒। गार्ह॑पत्या॒नीति॒ गार्ह॑ऽपत्यानि। स॒न्तु॒। श॒तम्। हिमाः॑। सूर्य्य॒स्य। आ॒वृत॒मित्या॒ऽवृत॑म्। अनु॑। आ। व॒र्त्ते॒ ॥२७॥
हिन्दी - स्वामी दयानन्द सरस्वती
गृहस्थ लोगों को इसके अनुष्ठान से क्या-क्या सिद्ध करना चाहिये, सो अगले मन्त्र में प्रकाशित किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ गृहाश्रमिभिरस्यानुष्ठानेन किं किं साधनीयमित्युपदिश्यते ॥
(अग्ने) परमेश्वर भौतिको वा (गृहपते) गृह्णन्ति स्थापयन्ति पदार्थान् यस्मिन् ब्रह्माण्डे शरीरे निवासार्थे वा गृहे तस्य यः पतिः पालयिता तत्संबुद्धौ (सुगृहपतिः) शोभनानां गृहाणां पतिः पालयिता (त्वया) जगदीश्वरेणानेन विज्ञानसुगृहस्थेन वा (अग्ने) सर्वस्वामिन् विद्याप्राप्तिसाधको वा (अहम्) गृहस्वामी मनुष्यो यज्ञानुष्ठाता वा (गृहपतिना) सर्वस्वामिना गृहपालकेन वा (भूयासम्) स्पष्टार्थः। (सुगृहपतिः) शोभनश्चासौ गृहस्य पालकश्च सः (त्वम्) जगदीश्वरोऽयं धार्मिको वा (मया) सत्कर्मानुष्ठात्रा सह (अग्ने) जगदीश्वर ! प्रशस्तविद्य वा (गृहपतिना) धार्मिकेण पुरुषार्थिना गृहपालकेन वा (भूयाः) भवेः (अस्थूरि) तिष्ठन्ति यस्मिन्नालस्ये तत्स्थूरं तन्निन्दितं विद्यते यस्मिन् तत्स्थूरि न स्थूरि यथा स्यात्तथा। अत्र निन्दार्थ इनिः (नौ) आवयोर्गृहसम्बन्धिनोः स्त्रीपुरुषयोः (गार्हपत्यानि) गृहपतिना संयुक्तानि कर्माणि। गृहपतिना संयुक्ते ञ्यः (अष्टा०४.४.९०) (सन्तु) भवन्तु (शतम्) शतादधिकानि वा (हिमाः) हेमन्तर्तवः। भूयाꣳसि शताद्वर्षेभ्यः पुरुषो जीवति (शत०१.९.३.१९) (सूर्य्यस्य) स्वप्रकाशस्येश्वरस्य विद्यान्यायप्रकाशकस्य विदुषो वा (आवृतम्) समन्ताद् वर्त्तन्तेऽहोरात्राणि यस्मिन् तं समयम् (अनु) अनुगतार्थे (आ) समन्तात् (वर्त्ते) वर्त्तमानो भवेयम् ॥ अयं मन्त्रः (शत०१.९.३.१८-२१) व्याख्यातः ॥२७॥