सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳ शि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो᳕ यद्विलि॑ष्टम् ॥२४॥
सम्। वर्च॑सा। पय॑सा। सम्। त॒नूभिः॑। अग॑न्महि। मन॑सा। सम्। शि॒वेन॑। त्वष्टा॑। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। वि। द॒धा॒तु॒। रायः॑। अनु॑। मा॒र्ष्टु॒। त॒न्वः᳕। यत्। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम् ॥२४॥
हिन्दी - स्वामी दयानन्द सरस्वती
उक्त यज्ञ से हम लोग किस-किस पदार्थ को प्राप्त होते हैं, सो अगले मन्त्र में प्रकाशित किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
तेन यज्ञेन वयं किं किं प्राप्नुम इत्युपदिश्यते ॥
(सम्) सम्यगर्थे (वर्चसा) वर्चन्ते दीप्यन्ते सर्वे पदार्था यस्मिन् वेदाध्ययने तेन (पयसा) पयन्ते विजानन्ति सर्वान् पदार्थान् येन ज्ञानेन तेन (सम्) सन्धानार्थे (तनूभिः) तन्वते सुखानि कर्माणि च यासु ताभिः (अगन्महि) प्राप्नुमः। गमधातोर्लुङि उत्तमबहुवचने। मन्त्रे घसह्वरणश० (अष्टा०२.४.८०) अनेन च्लेर्लुक्। म्वोश्च (अष्टा०८.२.६५) अनेन मकारस्य नकारादेशः। अत्र लडर्थे लुङ् (मनसा) मन्यन्ते ज्ञायन्ते सर्वे व्यवहारा येनान्तःकरणेन तेन (सम्) मिश्रीभावे (शिवेन) सर्वसुखनिमित्तेन (त्वष्टा) त्वक्षति तनूकरोति दुःखानि प्रलये सर्वान् पदार्थान् छिनत्ति वा स जगदीश्वरः (सुदत्रः) सुष्ठु सुखं ददातीति सः (विदधातु) विधानं करोतु (रायः) विद्याचक्रवर्त्तिराज्यश्रियादीनि धनानि (अनु) पश्चादर्थे (मार्ष्टु) शोधयतु (तन्वः) शरीरस्य (यत्) यावत् (विलिष्टम्) परिपूर्णम्। अत्र विरुद्धार्थे विशब्दः ॥ अयं मन्त्रः (शत०१.९.३.६) व्याख्यातः ॥२४॥