अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दुर॑द्म॒न्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु। सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ॥२०॥
अग्ने॑। अ॒द॒ब्धा॒यो॒ऽ इत्य॑दब्धऽआ॒यो। अ॒शी॒त॒म॒। अ॒शि॒त॒मेत्य॑शिऽतम। पा॒हि। मा॒। दि॒द्योः। पा॒हि। प्रसि॑त्या॒ इति॒ प्रऽसि॑त्यै। पा॒हि। दुरि॑ष्ट्या॒ इति॒ दुःऽइ॑ष्ट्यै। पा॒हि। दु॒र॒द्म॒न्या इति॑ दुःऽअद्म॒न्यै॑। अ॒वि॒षम्। नः॒। पि॒तुम्। कृ॒णु॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। योनौ॑। स्वाहा॑। वाट्। अ॒ग्नये॑। सं॒वे॒शप॑तय॒ इति॑ संवे॒शऽप॑तये। स्वाहा॑। सर॑स्वत्यै। य॒शो॒भ॒गिन्या॒ इति॑ यशःऽभ॒गिन्यै॑। स्वाहा॑ ॥२०॥
हिन्दी - स्वामी दयानन्द सरस्वती
उक्त अग्नि कैसा और क्यों प्रार्थना करने योग्य है, सो अगले मन्त्र में प्रकाशित किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सोऽग्निः कीदृशः किमर्थः प्रार्थनीयश्चेत्युपदिश्यते ॥
(अग्ने) जगदीश्वर ! भौतिको वा (अदब्धायो) अदब्धमहिंसितमायुर्यस्मात् तत्संबुद्धौ, अदब्धायुर्वा। (अशीतम) अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितस्तत्संबुद्धौ। स वा। अन्येषामपि दृश्यते [अष्टा०६.३.१३७] इति दीर्घः (पाहि) रक्ष पाति वा (मा) माम् (दिद्योः) अतिदुःखात्। दिवु धातोः कुर्भ्रश्च (उणा०१.२२) इति चकारेण कुप्रत्ययो बाहुलकाद् वकारलोपश्च (पाहि) रक्ष रक्षति वा (प्रसित्यै) प्रकृष्टा चासौ सितिर्बन्धनं यस्यां तस्याः। अत्र पञ्चम्यर्थे चतुर्थी (पाहि) पाति वा (दुरिष्ट्यै) दुष्टा इष्टिर्यजनं यस्यां तस्याः। अत्र पञ्चम्यर्थे चतुर्थी। (पाहि) पाति वा। (दुरद्मन्यै) दुष्टा अद्मनी अदनक्रिया यस्यां तस्याः। अत्रापि पञ्चम्यर्थे चतुर्थी (अविषम्) विषादिदोषरहितम् (नः) अस्माकम् (पितुम्) अन्नम्। पितुरित्यन्ननामसु पठितम् (निघं०२.७) (कृणु) कुरु करोति वा। अत्र सर्वत्र पक्षे लडर्थे लोट् (सुषदा) सुखेन सीदन्ति यस्यां तस्याम्। अत्र सुपां सुलुक् [अष्टा०७.१.३९] इति ङेः स्थान आकारादेशः (योनौ) युवन्ति यस्यां सा योनिर्गृहं जन्मान्तरं वा तस्याम्। योनिरिति गृहनामसु पठितम् (निघं०३.४) (स्वाहा) सु आहानया सा (वाट्) क्रियार्थे। (अग्नये) परमेश्वराय भौतिकाय वा (संवेशपतये) सम्यग् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतिः पालकस्तस्मै (स्वाहा) सुष्ठु आहुतं करोति यस्यां सा (सरस्वत्यै) सरन्ति जानन्ति येन तत् सरो ज्ञानं तत्प्रशस्तं विद्यते यस्यां वाचि तस्यै। सरस्वतीति वाङ्नामसु पठितम् (निघं०१.११) (यशोभगिन्यै) यशांसि सत्यवचनादीनि कर्माणि भजितुं शीलं यस्यास्तस्यै (स्वाहा) स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा ॥ अयं मन्त्रः (शत०१.७.३.१९-२०) व्याख्यातः ॥२०॥