वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम्। व्यन्तु॒ वयो॒क्तꣳ रिहा॑णा म॒रुतां॒ पृष॑तीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह। च॒क्षु॒ष्पाऽअ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ॥१६॥
वसु॑भ्य॒ इति॒ वसु॑ऽभ्यः। त्वा॒। रु॒द्रेभ्यः॑। त्वा॒। आ॒दि॒त्येभ्यः॑। त्वा॒। सम्। जा॒ना॒था॒म्। द्या॒वा॒पृथि॒वी॒ऽ इति॑ द्यावाऽपृथिवी। मि॒त्रावरु॑णौ। त्वा॒। वृष्ट्या॑। अ॒व॒ता॒म्। व्यन्तु॑। वयः॑। अ॒क्तम्। रिहा॑णाः। म॒रुता॑म्। पृष॑तीः। ग॒च्छ॒। व॒शा। पृश्निः॑। भू॒त्वा। दिव॑म्। ग॒च्छ॒। ततः॑। नः। वृष्टि॑म्। आ॑। व॒ह॒। च॒क्षु॒ष्पाः। अ॒ग्ने॒। अ॒सि॒। चक्षुः॑। मे॒। पा॒हि॒ ॥१६॥
हिन्दी - स्वामी दयानन्द सरस्वती
उक्त यज्ञ से क्या होता है, सो अगले मन्त्र में उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
तस्मात् किं भवतीत्युपदिश्यते ॥
(वसुभ्यः) अग्न्यादिभ्योऽष्टभ्यः (त्वा) तं पूर्वोक्तं यज्ञम् (रुद्रेभ्यः) पूर्वोक्तेभ्य एकादशभ्यः (त्वा) तम् (आदित्येभ्यः) द्वादशभ्यो मासेभ्यः (त्वा) तं क्रियासमूहम् (सम्) सम्यगर्थे (जानाथाम्) जानीतः, प्रादुर्भूतविद्यासाधिके भवतः। अत्र व्यत्ययो लडर्थे लोट् च (द्यावापृथिवी) सूर्य्यप्रकाशो भूमिश्च। अत्र दिवो द्यावा [अष्टा०६.३.२९] इति द्यावादेशः (मित्रावरुणौ) यः सर्वप्राणो बहिःस्थो वायुर्वरुणोऽन्तस्थ उदानो वायुश्च तौ (त्वा) तमिमं संसारम् (वृष्ट्या) शुद्धजलवर्षणेन (अवताम्) रक्षतः (व्यन्तु) व्यन्ति प्राप्नुवन्ति। अत्र सर्वत्र लडर्थे लोट्। (वयः) पक्षिण इव गायत्र्यादीनि छन्दांसि (अक्तम्) प्रकटं वस्तु सुखं वा (रिहाणाः) अर्चकाः। रिहतीत्यर्चतिकर्मसु पठितम् (निघं०३.१४) (मरुताम्) वायूनाम् (पृषतीः) पृषन्ति सिञ्चन्ति याभिर्नाडीभिर्नदीभिर्यास्ताः (गच्छ) गच्छति (वशा) कामिताहुतिः (पृश्निः) अन्तरिक्षस्थाः। पृश्निरिति साधारणनामसु पठितम् (निघं०१.४) (भूत्वा) भावयित्वा। अत्रान्तर्गतो ण्यर्थः (दिवम्) सूर्य्यप्रकाशम् (गच्छ) गच्छति (ततः) तस्मात् (नः) अस्माकम् (वृष्टिम्) जलसमूहम् (आ) समन्तात् क्रियायोगे (वह) वहति प्रापयति (चक्षुष्पाः) चक्षुर्दर्शनं रक्षतीति सः (अग्ने) अग्निर्भौतिकः (असि) भवति। अत्र सर्वत्र पुरुषव्यत्ययः (चक्षुः) बाह्यमाभ्यन्तरं विज्ञानं, तत्साधनं वा (मे) मम (पाहि) पाति रक्षति ॥ अयं मन्त्रः (शत०१.७.१.७-१९) व्याख्यातः ॥१६॥