अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ यो᳕ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि। इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ यो᳕ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥१५॥
अ॒ग्नीषोम॑योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा॒ प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। अ॒ग्नीषोमौ॑। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि। इ॒न्द्रा॒ग्न्योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि॒ ॥१५॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब उस यज्ञ से क्या क्या दूर करना चाहिये, यह विषय अगले मन्त्र में प्रकाशित किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ तेन किं किं दूरीकर्त्तव्यमित्युपदिश्यते ॥
(अग्नीषोमयोः) अग्निश्च सोमश्च तयोः प्रसिद्धाग्निचन्द्रलोकयोः। अत्र ईदग्नेः सोमवरुणयोः (अष्टा०६.३.२७) अनेन देवताद्वन्द्वसमासेऽग्नेरीकारादेशः (उज्जितिम्) जयत्यनया सा जितिरुत्कृष्टा चासौ जितिश्च तामुत्कृष्टं विजयम् (अनु) पश्चाद्भावे (उत्) उत्कृष्टार्थे (जेषम्) जयं कुर्य्याम्। अत्र लिङर्थे लुङडभावो वृद्ध्यभावश्च (वाजस्य) युद्धस्य (मा) मां विजेतारम् (प्रसवेन) उत्पादनेन प्रकृष्टैश्वर्य्येण सह वा (प्रोहामि) प्रकृष्टतया विविधशुद्धतर्केण योजयामि (अग्नीषोमौ) विद्यया सम्यक् प्रयोजितौ (तम्) शत्रुं रोगं वा (अप) दूरीकरणे (नुदताम्) प्रेरयतः। अत्र लडर्थे लोट् (यः) अन्यायकारी (अस्मान्) न्यायकारिणः (द्वेष्टि) शत्रूयति (यम्) अन्यायकारिणम् (च) समुच्चये (वयम्) न्यायाधीशाः (द्विष्मः) विरुध्यामः (वाजस्य) यानवेगादियुक्तस्य सैन्यस्य (एनम्) पूर्वोक्तं दुष्टम् (प्रसवेन) प्रकृष्टतया युद्धविद्याप्रेरणेन (अप) दूरीकरणे (ऊहामि) विविधतर्केण क्षिपामि (इन्द्राग्न्योः) इन्द्रो वायुरग्निर्विद्युत्तयोः (उज्जितिम्) विद्यया सम्यगुत्कर्षम् (अनूज्जेषम्) अनुगतमुत्कर्षं प्राप्नुयाम्। अस्य सिद्धिः पूर्ववत् (वाजस्य) प्रेरणाप्रेरणवेगप्राप्तेः (मा) मां वायुविद्युद्विद्याप्राप्तम् (प्रसवेन) ऐश्वर्यार्थमुत्पादितेन (प्रोहामि) प्रकृष्टैर्विविधैस्तर्कैः सुखानि प्राप्नोमि (इन्द्राग्नी) पूर्वोक्तौ सम्यक् साधितौ (तम्) द्वेषस्वभावम् (अप) निषेधार्थे (नुदताम्) प्रेरयतः। अत्र लडर्थे लोट् (यः) अविद्वान् (अस्मान्) विदुषः (द्वेष्टि) अप्रीतयति (यम्) दुष्टस्वभावम् (च) समुच्चयार्थे (वयम्) विद्वांसः (द्विष्मः) अप्रीतयामः (वाजस्य) विज्ञानस्य (एनम्) मूर्खम् (प्रसवेन) उत्पादनेन (अप) वर्जने (ऊहामि) विविधां शिक्षां करोमि ॥ अयं मन्त्रः (शत०१.८.३.१-६) व्याख्यातः ॥१५॥