मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नो॒त्वरि॑ष्टं य॒ज्ञꣳ समि॒मं द॑धातु। विश्वे॑ दे॒वास॑ऽइ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ॥१३॥
मनः॑। जू॒तिः। जु॒ष॒ता॒म्। आज्य॑स्य। बृह॒स्पतिः॑। य॒ज्ञम्। इ॒मम्। त॒नो॒तु॒। अरि॑ष्टम्। य॒ज्ञम्। सम्। इ॒मम्। द॒धा॒तु॒। विश्वे॑। दे॒वासः॑। इ॒ह। मा॒द॒य॒न्ता॒म्। ओ३म्। प्र। ति॒ष्ठ॒ ॥१३॥
हिन्दी - स्वामी दयानन्द सरस्वती
जिससे यज्ञ किया जा सकता है, सो विषय अगले मन्त्र में प्रकाशित किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
येन यज्ञः कर्तुं शक्यस्तदुपदिश्यते ॥
(मनः) मननशीलं ज्ञानसाधनम् (जूतिः) वेगेन व्याप्तिकर्म। ऊतियूतिजूति० (अष्टा०३.३.९७) अनेन निपातितः (जुषताम्) प्रीत्या सेवताम् (आज्यस्य) यज्ञसामग्रीम्। सुपां सुलुक्० [अष्टा०९.१.३९] इति द्वितीयास्थाने षष्ठी (बृहस्पतिः) बृहतां प्रकृत्याकाशादीनां पतिः पालको जगदीश्वरः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (अष्टा०६.१.१५७) अनेन वार्त्तिकेन बृहस्पतिशब्दो निपातितः (यज्ञम्) संसाराख्यम् (इमम्) प्रत्यक्षाप्रत्यक्षं सुखभोगहेतुम् (तनोतु) विस्तारयतु (अरिष्टम्) रिष्यते हिंस्यते यः स रिष्टो न रिष्टोऽरिष्टस्तम् (यज्ञम्) अस्माभिरनुष्ठातुमर्हम् (सम्) एकीभावे क्रियायोगे (इमम्) समक्षं विज्ञानयज्ञम् (दधातु) धारयतु (विश्वे देवासः) सर्वे विद्वांसः। अत्र जसेरसुगागमः (इह) अस्मिन् संसारे हृदये वा (मादयन्ताम्) हृषन्तु (ओ३म्) ईश्वरवाचको यज्ञो वेदविद्या वा ॥ खं ब्रह्म (यजु०४०.१७) अत्र। अवतेष्टिलोपश्च (उणा०१.१४२) अनेनाऽवधातोर्मन् प्रत्ययोऽस्य टिलोपश्च (प्रतिष्ठ) प्रतिष्ठति वा अत्रान्त्यपक्षे व्यत्ययो लडर्थे लोट् च ॥ अयं मन्त्रः (शत०१.७.४.२२) व्याख्यातः ॥१३॥