उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳕ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। प्रति॑ गृह्णाम्य॒ग्नेष्ट्वा॒स्ये᳖न॒ प्राश्ना॑मि ॥११॥
उप॑हूत॒ इत्युप॑ऽहूतः। द्यौः। पि॒ता। उप॑। माम्। द्यौः। पि॒ता। ह्व॒य॒ता॒म्। अ॒ग्निः। आग्नी॑ध्रात्। स्वाहा॑। दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। प्रति॑। गृ॒ह्णा॒मि॒। अ॒ग्नेः। त्वा॒। आ॒स्ये᳖न। प्र। अ॒श्ना॒मि॒ ॥११॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी अगले मन्त्र में उक्त अर्थ को दृढ़ किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेवार्थं द्रढयति ॥
(उपहूतः) कृतोपह्वानः (द्यौः) प्रकाशरूपः (पिता) सर्वपालक ईश्वरः (उप) क्रियार्थे (माम्) सुखभोक्तारम् (द्यौः) प्रकाशमयः (पिता) पालनहेतुः सूर्य्यलोकः (ह्वयताम्) ह्वयति। अत्र व्यत्ययेन लडर्थे लोट् (अग्निः) जाठरस्थः (आग्नीध्रात्) अन्नाशयात्। साधुत्वमस्य पूर्ववज्ज्ञेयम् (स्वाहा) सुहुतं सुखकार्याहेश्वरः (देवस्य) हर्षकरस्य (त्वा) त्वां तं वा (सवितुः) सर्वस्य जगतः प्रसवितुरीश्वरस्य (प्रसवे) उत्पन्नेऽस्मिन् जगति (अश्विनोः) प्राणापानयोः (बाहुभ्याम्) आकर्षणधारणाभ्याम् (पूष्णः) पुष्टिहेतोः समानस्य वायोः (हस्ताभ्याम्) शोधनसर्वाङ्गप्रापणाभ्याम् (प्रतिगृह्णामि) नित्यं स्वीकरोमि (अग्नेः) भौतिकस्य पाचकस्य (त्वा) तं भक्ष्यं पदार्थम् (आस्येन) मुखेन ओष्ठात् प्रभृति प्राक् काकलकादास्यम् (अष्टा०१.१.९) इति महाभाष्ये। अस्यन्ति प्रक्षिपन्ति उदरेऽन्नादिकं येन, तदास्यं मुखम् (प्र) गुणैर्यत्प्रकृष्टं तदर्थे। क्रियायोगे। प्रपरेत्येतस्य प्रातिलोम्यं प्राह (निरु०१.३) (अश्नामि) भुञ्जे। अयं मन्त्रः (शत०१.६.३.३९-४४) व्याख्यातः ॥११॥