अवि॒र्न मे॒षो न॒सि वी॒र्या᳖य प्रा॒णस्य॒ पन्था॑ऽअ॒मृतो॒ ग्रहा॑भ्याम्। सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ॥९० ॥
अविः॑। न। मे॒षः। न॒सि। वी॒र्या᳖य। प्रा॒णस्य॑। पन्थाः॑। अ॒मृतः॑। ग्रहा॑भ्याम्। सर॑स्वती। उ॒प॒वाकै॒रित्यु॑प॒ऽवाकैः॑। व्या॒नमिति॑ विऽआ॒नम्। नस्या॑नि। ब॒र्हिः। बद॑रैः। ज॒जा॒न॒ ॥९० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब योगी का कर्त्तव्य अगले मन्त्र में कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ योगिकृत्यमाह ॥
(अविः) योऽवति रक्षति सः (न) इव (मेषः) यो मिषति स्पर्द्धते सः (नसि) नासिकायाम् (वीर्याय) योगबलाय (प्राणस्य) (पन्थाः) मार्गः (अमृतः) मृत्युधर्मरहितः (ग्रहाभ्याम्) यौ गृह्णीतस्ताभ्याम् (सरस्वती) प्रशस्तविज्ञानयुक्ता स्त्री (उपवाकैः) उपयन्ति यैस्तैः (व्यानम्) विविधमनन्ति येन तम् (नस्यानि) नासिकायै हितानि (बर्हिः) वर्द्धनम् (बदरैः) बदरीफलैः (जजान) जनयति ॥९० ॥