मुख॒ꣳ सद॑स्य॒ शिर॒ऽइत् सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती। चप्यं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ॥८८ ॥
मुख॑म्। सत्। अ॒स्य॒। शिरः॑। इत्। सते॑न। जि॒ह्वा। प॒वित्र॑म्। अ॒श्विना॑। आ॒सन्। सर॑स्वती। चप्य॑म्। न। पा॒युः। भि॒षक्। अ॒स्य॒। वालः॑। व॒स्तिः। न। शेपः॑। हर॑सा। त॒र॒स्वी ॥८८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(मुखम्) (सत्) (अस्य) पुरुषस्य (शिरः) (इत्) एव (सतेन) उत्तमावयवैर्विभक्तेन शिरसा। सत् इत्युत्तरनामसु पठितम् ॥ (निघं०३.२९) (जिह्वा) जुहोति गृह्णाति यया सा (पवित्रम्) शुद्धम् (अश्विना) गृहाश्रमव्यवहारव्यापिनौ (आसन्) आस्ये (सरस्वती) वाणीव ज्ञानवती स्त्री (चप्यम्) चपेषु सान्त्वनेषु भवम्। चप सान्त्वने धातोरेच् ततो यत्। (न) इव (पायुः) रक्षकः (भिषक्) वैद्यः (अस्य) (वालः) बालकः (वस्तिः) वासहेतुः (न) इव (शेपः) उपस्थेन्द्रियम् (हरसा) हरति येन तेन बलेन (तरस्वी) प्रशस्तं तरो विद्यते यस्य सः ॥८८ ॥