आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदाः॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः। श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता ॥८६ ॥
आ॒न्त्राणि॑। स्था॒लीः। मधु॑। पिन्व॑मानाः। गुदाः॑। पात्रा॑णि। सु॒दुघेति॑ सु॒ऽदुघा॑। न। धे॒नुः। श्ये॒नस्य॑। पत्र॑म्। न। प्ली॒हा। शची॑भिः। आ॒स॒न्दीत्या॑ऽस॒न्दी। नाभिः॑। उ॒दर॑म्। न। मा॒ता ॥८६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(आन्त्राणि) उदरस्था अन्नपाकाधारा नाडीः (स्थालीः) यासु पच्यन्तेऽन्नानि (मधु) मधुरगुणान्वितमन्नम् (पिन्वमानाः) सेवमानाः प्रीतिहेतवः। पिवि सेवने च। (गुदाः) गुह्येन्द्रियाणि (पात्राणि) यैः पिबन्ति तानि (सुदुघा) सुष्ठु सुखेन दुह्यत इति। दुहः कब् घश्चेति कर्मणि कप्। (न) इव (धेनुः) गौः (श्येनस्य) (पत्रम्) पक्षः (न) इव (प्लीहा) (शचीभिः) प्रज्ञाकर्मभिः (आसन्दी) समन्तात् रसप्रापिका (नाभिः) शरीरमध्यस्था (उदरम्) (न) इव (माता) ॥८६ ॥