आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भिगृ॑णीत॒ विश्वे॑। मा हि॑ꣳसिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ऽआगः॑ पुरु॒षता॒ करा॑म ॥६२ ॥
आच्येत्या॒ऽअच्य॑। जानु॑। द॒क्षि॒ण॒तः। नि॒षद्य॑। नि॒षद्येति॑ नि॒ऽसद्य॑। इ॒मम्। य॒ज्ञम्। अ॒भि। गृ॒णी॒त॒। विश्वे॑। मा। हि॒ꣳसि॒ष्ट॒। पि॒त॒रः॒। केन॑। चि॒त्। नः॒। यत्। वः॒। आगः॑। पु॒रु॒षता॑। करा॑म ॥६२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(आच्य) अधो निपात्य (जानु) (दक्षिणतः) दक्षिणपार्श्वतः (निषद्य) समास्य (इमम्) (यज्ञम्) सत्काराख्यम् (अभि) आभिमुख्ये (गृणीत) प्रशंसत (विश्वे) सर्वे (मा) (हिंसिष्ट) (पितरः) ज्ञानप्रदाः (केन) (चित्) (नः) अस्माकम् (यत्) (वः) (आगः) अपराधम् (पुरुषता) पुरुषस्य भावः (कराम) कुर्याम। अत्र विकरणव्यत्ययेन शप् ॥६२ ॥