अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒ꣳसे सो॑मपी॒थं यऽआ॒शुः। ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥६१ ॥
अ॒ग्नि॒ष्वा॒त्तान्। अ॒ग्नि॒स्वा॒त्तानित्य॑ग्निऽस्वा॒त्तान्। ऋ॒तु॒मत॒ इत्यृ॑तु॒ऽमतः॑। ह॒वा॒म॒हे॒। ना॒रा॒श॒ꣳसे। सो॒म॒पी॒थमिति॑ सोमऽपी॒थम्। ये। आ॒शुः। ते। नः॒। विप्रा॑सः। सु॒हवा॒ इति॑ सु॒ऽहवाः॑। भ॒व॒न्तु॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। ॥६१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
माता-पिता और सन्तानों को परस्पर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पितृसन्तानैरितेतरं किं कर्त्तव्यमित्याह ॥
(अग्निष्वात्तान्) सुष्ठुगृहीताऽग्निविद्यान् (ऋतुमतः) प्रशस्ता वसन्तादय ऋतवो विद्यन्ते येषां तान् (हवामहे) (नाराशंसे) नराणां प्रशंसामये सत्कारव्यवहारे (सोमपीथम्) सोमपानम् (ये) (आशुः) अश्नीयुः (ते) (नः) अस्मभ्यम् (विप्रासः) मेधाविनः (सुहवाः) सुष्ठुदानाः (भवन्तु) (वयम्) (स्याम) (पतयः) स्वामिनः (रयीणाम्) धनानाम् ॥६१ ॥