आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ऽअवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑। ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्तऽइ॒हाग॑मिष्ठाः ॥५६ ॥
आ। अ॒हम्। पि॒तॄन्। सु॒वि॒दत्रा॒निति॑ सुऽवि॒दत्रा॑न्। अ॒वि॒त्सि॒। नपा॑तम्। च॒। वि॒क्रम॑ण॒मिति॑ वि॒ऽक्रम॑णम्। च॒। विष्णोः॑। ब॒र्हि॒षद॒ इति॑ बर्हि॒ऽसदः॑। ये। स्व॒धया॑। सु॒तस्य॑। भज॑न्त। पि॒त्वः। ते। इ॒ह। आग॑मिष्ठा॒ इत्याऽग॑मिष्ठाः ॥५६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(आ) (अहम्) (पितॄन्) जनकान् (सुविदत्रान्) सुष्ठु विविधानां सुखानां दातॄन् (अवित्सि) विद्मि (नपातम्) न विद्यते पातो यस्य तम् (च) (विक्रमणम्) विक्रमन्ते यस्मिन् जगति तत् (च) (विष्णोः) वेवेष्टि चराचरं जगत् तस्येश्वरस्य (बर्हिषदः) उत्तम आसने सीदन्ति ते (ये) (स्वधया) अन्नेन (सुतस्य) निष्पादितस्य (भजन्त) भजन्ते सेवन्ते (पित्वः) सुरभिपानम् (ते) (इह) (आगमिष्ठाः) आगच्छन्तु। अत्र लोडर्थे लुङ् पुरुषवचनव्यत्ययः ॥५६ ॥