बर्हि॑षदः पितरऽऊ॒त्य᳕र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्। तऽआग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शंयोर॑र॒पो द॑धात ॥५५ ॥
बर्हि॑षदः। बर्हि॑सद॒ इति॒ बर्हिऽसदः। पि॒त॒रः॒। ऊ॒ती। अ॒र्वाक्। इ॒मा। वः॒। ह॒व्या। च॒कृ॒म॒। जु॒षध्व॑म्। ते। आ। ग॒त॒। अव॑सा। शन्त॑मे॒नेति॒ शम्ऽत॑मेन। अथ॑। नः॒। शम्। योः। अ॒र॒पः। द॒धा॒त॒ ॥५५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(बर्हिषदः) ये बर्हिषि उत्तमायां सभायां सीदन्ति (पितरः) न्यायेन पालकाः (ऊती) ऊत्या रक्षणादिक्रियया (अर्वाक्) पश्चात् (इमा) इमानि (वः) युष्मभ्यम् (हव्या) अत्तुमर्हाणि (चकृम) संस्कृतानि कुर्याम। अन्येषामपि दृश्यते [अष्टा०६.३.१३७] इति दीर्घः। (जुषध्वम्) सेवध्वम् (ते) (आ) (गत) गच्छत (अवसा) रक्षाद्येन (शन्तमेन) अतिशयितं शं सुखं तेन (अथ) अत्र निपातस्य च [अष्टा०६.३.१३६] इति दीर्घः। (नः) अस्मभ्यम् (शम्) सुखम् (योः) दूरीकरणे (अरपः) अविद्यमानं पापं यस्मिन् तत् सत्याचरणम्। रपो रिप्रमिति पापनामनी भवतः ॥ (निरु०४.२९) (दधात) ॥५५ ॥