वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑। वा॒योः पू॒तः प॒वित्रे॑ण प्राङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३ ॥
वा॒योः। पू॒तः। प॒वित्रे॑ण। प्र॒त्यङ्। सोमः॑। अतिद्रु॑त॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑। वा॒योः। पू॒तः। प॒वित्रेण॑। प्राङ्। सोमः॑। अति॑द्रुत॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑ ॥३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(वायोः) पवनात् (पूतः) शुद्धः (पवित्रेण) शुद्धिकरेण (प्रत्यङ्) यः प्रत्यक्षमञ्चति प्राप्नोति सः (सोमः) सोमलताद्योषधिगणः (अतिद्रुतः) योऽतिद्रवति सः (इन्द्रस्य) इन्द्रियस्वामिनो जीवस्य (युज्यः) युक्तः (सखा) मित्रमिव (वायोः) शुद्धाच्छुद्धिनिमित्तात् (पूतः) निर्मलः (पवित्रेण) शुद्धिकरेण कर्मणा (प्राङ्) प्रकृष्टतयाऽञ्चति सः (सोमः) निष्पादितौषधिरसः (अतिद्रुतः) अत्यन्तं शीघ्रकारी (इन्द्रस्य) परमैश्वर्ययुक्तस्य राज्ञः (युज्यः) समाधातुमर्हः (सखा) सुहृदिव ॥३ ॥