धा॒नाना॑ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमाः॑। सक्तू॑ना रू॒पं बदर॑मुप॒वाकाः॑ कर॒म्भस्य॑ ॥२२ ॥
धा॒नाना॑म्। रू॒पम्। कुव॑लम्। प॒री॒वा॒पस्य॑। प॒री॒वा॒पस्येति॑ परिऽवा॒पस्य॑। गो॒धूमाः॑। सक्तू॑नाम्। रू॒पम्। बद॑रम्। उ॒प॒वाका॒ इत्यु॑प॒ऽवाकाः॑। क॒र॒म्भस्य॑ ॥२२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कैसे मनुष्य नीरोग होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कीदृशा जना नीरोगा भवन्तीत्युपदिश्यते ॥
(धानानाम्) भृष्टयवाद्यन्नानाम् (रूपम्) (कुवलम्) कोमलं बदरीफलमिव (परीवापस्य) पिष्टादेः (गोधूमाः) (सक्तूनाम्) (रूपम्) (बदरम्) बदरीफलवद्वर्णयुक्तम् (उपवाकाः) उपगताः प्राप्ता यवाः (करम्भस्य) दधिसंसृष्टस्य सक्तुनः ॥२२ ॥