वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम्। यूपे॑न॒ यूप॑ऽआप्यते॒ प्रणी॑तोऽअ॒ग्निर॒ग्निना॑ ॥१७ ॥
वेद्या॑। वेदिः॑। सम्। आ॒प्य॒ते॒। ब॒र्हिषा॑। ब॒र्हिः। इ॒न्द्रि॒यम्। यूपे॑न। यूपः॑। आ॒प्य॒ते॒। प्रणी॑तः। प्रनी॑त इति॒ प्रऽनी॑तः। अ॒ग्निः। अ॒ग्निना॑ ॥१७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
किन जनों के कार्य्य सिद्ध होते हैं, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
केषां कार्य्याणि सिध्यन्तीत्याह ॥
(वेद्या) यज्ञसामग्र्या (वेदिः) यज्ञभूमिः (सम्) सम्यक् (आप्यते) प्राप्यते (बर्हिषा) महता पुरुषार्थेन (बर्हिः) वृद्धम् (इन्द्रियम्) धनम् (यूपेन) मिश्रिता मिश्रितेन व्यवहारेण (यूपः) मिश्रितो व्यवहारयत्नोदयः (आप्यते) (प्रणीतः) प्रकृष्टतया सम्मिलितः (अग्निः) पावकः (अग्निना) विद्युदादिना ॥१७ ॥