आ॒स॒न्दी रू॒पꣳ रा॑जास॒न्द्यै वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑। अन्त॑रऽउत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ॥१६ ॥
आ॒स॒न्दीत्या॑ऽस॒न्दी। रू॒पम्। रा॒जा॒स॒न्द्या इति॑ राजऽआस॒न्द्यै। वेद्यै॑। कु॒म्भी। सु॒रा॒धानीति॑ सुरा॒ऽधानी॑। अन्त॑रः। उ॒त्त॒र॒वे॒द्या इत्यु॑त्तरऽवे॒द्याः। रू॒पम्। का॒रो॒त॒रः। भि॒षक् ॥१६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य को कैसे कार्य्य साधना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्येण कथं कार्य्यं साध्यमित्युपदिश्यते ॥
(आसन्दी) समन्तात् सन्यते सेव्यते या सा। ‘सन्’ धातोरौणादिको ‘द’ प्रत्ययस्ततो ‘ङीष्’ (रूपम्) सुक्रिया (राजासन्द्यै) राजानः सीदन्ति यस्यां तस्यै (वेद्यै) विदन्ति सुखानि यया तस्यै (कुम्भी) धान्यादिपदार्थाऽऽधारा (सुराधानी) सुरा सोमरसो धीयते यस्यां सा गर्गरी (अन्तरः) येनानिति प्राणिति सः (उत्तरवेद्याः) उत्तरा चासौ वेदी च तस्याः (रूपम्) (कारोतरः) कर्मकारी (भिषक्) वैद्यः ॥१६ ॥