दी॒क्षायै॑ रू॒पꣳ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि। क्र॒यस्य॑ रू॒पꣳ सोम॑स्य ला॒जाः सो॑मा॒शवो॒ मधु॑ ॥१३ ॥
दी॒क्षायै॑ रू॒पम्। शष्पा॑णि। प्रा॒य॒णीय॑स्य। प्रा॒य॒नीय॒स्येति॑ प्रऽअय॒नीय॑स्य। तोक्मा॑नि। क्र॒यस्य॑। रू॒पम्। सोम॑स्य। ला॒जाः। सो॒मा॒शव॒ इति॑ सोमऽअ॒ꣳशवः॑। मधु॑ ॥१३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कैसे मनुष्य सुखी होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कीदृशा जनाः सुखिनो भवन्तीत्याह ॥
(दीक्षायै) यज्ञसाधननियमपालनाय (रूपम्) (शष्पाणि) आहत्य संशोध्य ग्राह्याणि धान्यानि (प्रायणीयस्य) प्रकृष्टं सुखं यन्ति येन व्यवहारेण तत्र भवस्य (तोक्मानि) अपत्यानि। तोक्मेत्यपत्यनामसु पठितम् ॥ (निघं०२.२) (क्रयस्य) द्रव्यविक्रयस्य (रूपम्) (सोमस्य) ओषधीरसस्य (लाजाः) प्रफुल्लिता व्रीहयः (सोमांशवः) सोमस्यांशाः (मधु) क्षौद्रम् ॥१३ ॥