मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ऽआ ज॑गन्था॒ पर॑स्याः। सृ॒कꣳ स॒ꣳशाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ॥७१ ॥
मृ॒गः। न। भी॒मः। कु॒च॒र इति॑ कुऽच॒रः। गि॒रि॒ष्ठाः। गि॒रि॒स्था इति॑ गिरि॒ऽस्थाः। प॒रा॒वतः॑। आ। ज॒ग॒न्थ॒। पर॑स्याः। सृ॒कम्। स॒शायेति॑ स॒म्ऽशाय॑। प॒विम्। इ॒न्द्र॒। ति॒ग्मम्। वि। शत्रू॑न्। ता॒ढि॒। वि॒। मृधः॑। नु॒द॒स्व॒ ॥७१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
राजपुरुषों को कैसा होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
राजजनैः कीदृशैर्भवितव्यमित्युपदिश्यते ॥
(मृगः) मृगेन्द्रः सिंहः (न) इव (भीमः) बिभेत्यस्मात् सः (कुचरः) यः कुत्सितां गतिं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति सः (परावतः) दूरदेशात् (आ) समन्तात् (जगन्थ) गच्छ। अत्र पुरुषव्यत्ययः। अन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घश्च (परस्याः) शत्रूणां सेनाया उपरि (सृकम्) वज्रतुल्यं शस्त्रम्। सृक इति वज्रनामसु पठितम् ॥ (निघं०२.२०) (संशाय) सम्यक् सूक्ष्मबलान् कृत्वा (पविम्) पुनाति दुष्टान् दण्डयित्वा येन तम् (इन्द्र) सेनाध्यक्ष (तिग्मम्) तीक्ष्णीकृतम् (वि) (शत्रून्) (ताढि) आजहि (वि) (मृधः) (नुदस्व) ॥७१ ॥