स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क् कुणा॑रुम्। अ॒भि वृ॒त्रं वर्द्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥६९ ॥
स॒हदा॑नु॒मिति॑ स॒हऽदा॑नुम्। पु॒रु॒हू॒तेति॑ पुरुऽहूत। क्षि॒यन्त॑म्। अ॒ह॒स्तम्। इ॒न्द्र॒। सम्। पि॒ण॒क्। कुणा॑रुम्। अ॒भि। वृ॒त्रम्। वर्द्ध॑मानम्। पिया॑रुम्। अ॒पाद॑म्। इ॒न्द्र॒। त॒वसा॑। ज॒घ॒न्थ॒ ॥६९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को कैसा होना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्जनैः कथम्भवितव्यमित्युपदिश्यते ॥
(सहदानुम्) यः सहैव ददाति तम् (पुरुहूत) बहुभिस्सज्जनैः सत्कृत (क्षियन्तम्) गच्छन्तम् (अहस्तम्) अविद्यमानौ हस्तौ यस्य तम् (इन्द्र) शत्रुविदारक सेनेश (सम्) (पिणक्) पिनष्टि (कुणारुम्) शब्दयन्तम्। अत्र ‘क्वण शब्दे’ इत्यस्माद्धातोरौणादिक आरुः प्रत्ययः। (अभि) (वृत्रम्) मेघमिव (वर्द्धमानम्) (पियारुम्) पानकारकम् (अपादम्) पादेन्द्रियरहितम् (इन्द्र) सभेश (तवसा) बलेन। तव इति बलनामसु पठितम् ॥ (निघं०२.९) (जघन्थ) जहि ॥६९ ॥