इन्दु॒र्दक्षः॑ श्ये॒नऽऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः। म॒हान्त्स॒धस्थे॑ ध्रु॒वऽआ निष॑त्तो॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिꣳसीः ॥५३ ॥
इन्दुः॑। दक्षः॑। श्ये॒नः। ऋ॒तावे॑त्यृ॒तऽवा॑। हिर॑ण्यपक्ष॒ इति॒ हिर॑ण्यऽपक्षः। श॒कु॒नः। भु॒र॒ण्युः। म॒हान्। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। ध्रु॒वः। आ। निष॑त्तः। निऽस॑त्त इति॒ निऽस॑त्तः। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हि॒ꣳसीः॒ ॥५३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
विद्वानों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
विद्वद्भिः किं कार्यमित्याह ॥
(इन्दुः) चन्द्र इव आर्द्रस्वभावः (दक्षः) बलचातुर्ययुक्तः (श्येनः) श्येन इव पराक्रमी (ऋतावा) ऋतस्य सत्यस्य सम्बन्धो विद्यते यस्य सः। अत्र अन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घः। सुपां सुलुग्० [अष्टा०७.१.३९] इति डादेशः (हिरण्यपक्षः) हिरण्यस्य सुवर्णस्य पक्षः परिग्रहो यस्य सः (शकुनः) शक्तिमान् (भुरण्युः) भर्त्ता (महान्) (सधस्थे) सह स्थाने (ध्रुवः) निश्चलः (आ) समन्तात् (निषत्तः) नितरां स्थितः (नमः) सत्करणम् (ते) तुभ्यम् (अस्तु) (मा) निषेधे (मा) माम् (हिंसीः) ताडयेः ॥५३ ॥