वाजो॑ नोऽअ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ऽऋ॒तुभिः॑ कल्पयाति। वाजो॒ हि मा सर्व॑वीरं ज॒जान॒ विश्वा॒ऽआशा॒ वाज॑पतिर्जयेयम् ॥३३ ॥
वाजः॑। नः॒। अ॒द्य। प्र। सु॒वा॒ति॒। दान॑म्। वाजः॑। दे॒वान्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। क॒ल्प॒या॒ति॒। वाजः॑। हि। मा। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। ज॒जान॑। विश्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। ज॒ये॒य॒म् ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या-क्या चाहने योग्य है, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं किमभीप्सितव्यमित्याह ॥
(वाजः) अन्नम् (नः) अस्मभ्यम् (अद्य) अस्मिन् दिने (प्र) (सुवाति) प्रेरयेत् (दानम्) (वाजः) (देवान्) विदुषो दिव्यान् गुणान् वा (ऋतुभिः) वसन्तादिभिः (कल्पयाति) समर्थयेत् (वाजः) (हि) खलु (मा) माम् (सर्ववीरम्) सर्वे वीरा यस्मात् तम् (जजान) जनयतु। अत्र लोडर्थे लिट् (विश्वाः) समग्राः (आशाः) दिशः (वाजपतिः) अन्नाद्यधिष्ठाता (जयेयम्) उत्कर्षेयम् ॥३३ ॥