वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥३० ॥
वाज॑स्य। नु। प्र॒स॒वे इति॑ प्रऽस॒वे। मा॒तर॑म्। म॒हीम्। अदि॑तिम्। नाम॑। वच॑सा। का॒रा॒म॒हे॒। यस्या॑म्। इ॒दम्। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशेत्याऽवि॒वेश॑। तस्या॑म्। नः॒। दे॒वः। स॒वि॒ता। धर्म॑। सा॒वि॒ष॒त् ॥३० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को कैसे किसकी उपासना करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्ममनुष्यैः कस्य कथमुपासना कार्येत्याह ॥
(वाजस्य) विविधोत्तमस्यान्नस्य (नु) एव (प्रसवे) उत्पादने (मातरम्) मान्यनिमित्तम् (महीम्) महतीं भूमिम् (अदितिम्) कारणरूपेण नित्याम् (नाम) प्रसिद्धौ (वचसा) वचनेन (करामहे) कुर्य्याम। अत्र विकरणव्यत्ययेन शप् (यस्याम्) पृथिव्याम् (इदम्) प्रत्यक्षम् (विश्वम्) सर्वम् (भुवनम्) भवन्ति यस्मिँस्तत्स्थूलं जगत् (आविवेश) आविष्टमस्ति (तस्याम्) (नः) अस्माकम् (देवः) शुद्धस्वरूपः (सविता) सकलैश्वर्ययुक्त ईश्वरः (धर्म) धारणाम् (साविषत्) सुवतु ॥३० ॥