पृ॒थि॒वी च॑ म॒ऽइन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ऽइन्द्र॑श्च मे॒ द्यौश्च॑ म॒ऽइन्द्र॑श्च मे॒ समा॑श्च म॒ऽइन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ऽइन्द्र॑श्च मे॒ दिश॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१८ ॥
पृ॒थि॒वी। च॒। मे॒। इन्द्रः॑। च॒। मे॒। अ॒न्तरि॑क्षम्। च॒। मे॒। इन्द्रः॑। च॒। मे॒। द्यौः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। समाः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। नक्ष॑त्राणि। च॒। मे॒। इन्द्रः॑। च॒। मे॒। दिशः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(पृथिवी) विस्तीर्णा भूमिः (च) अत्रस्थाः पदार्थाः (मे) (इन्द्रः) विद्युत्क्रिया (च) बलप्रदा (मे) (अन्तरिक्षम्) अक्षयमाकाशम् (च) अत्रस्थाः पदार्थाः (मे) (इन्द्रः) सर्वैश्वर्याधारः (च) एतत्प्रयोगः (मे) (द्यौः) प्रकाशकर्मा (च) एतत्साधकाः पदार्थाः (मे) (इन्द्रः) सकलपदार्थविच्छेत्ता (च) विच्छेद्याः पदार्थाः (मे) (समाः) संवत्सराः (च) क्षणादयः (मे) (इन्द्रः) कालज्ञाननिमित्तः (च) गणितम् (मे) (नक्षत्राणि) यानि कारणरूपेण न क्षीयन्ते तानि भुवनानि (च) एतत्सम्बन्धिनः (मे) (इन्द्रः) लोकलोकान्तरस्था विद्युत् (च) (मे) (दिशः) पूर्वाद्याः (च) एतत्स्थानि वस्तूनि (मे) (इन्द्रः) दिग्ज्ञापकः (च) ध्रुवतारा (मे) (यज्ञेन) पृथिवीकालविज्ञापकेन (कल्पन्ताम्) ॥१८ ॥